________________
१६८४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कल्प०प्रकृते सूत्रम् २० वमौदर्ये राजप्रद्वेषे तस्करादिभये च शय्यातरपिण्डस्य ग्रहणमनुज्ञातम् ॥ ६३७९ ॥ अत्र दुर्लभद्रव्यग्रहणे विधिमाह
तिक्खुत्तो सक्खेत्ते, चउद्दिसि जोयणम्मि कडजोगी।
दव्वस्स य दुल्लभता, सागारिणिसेवणा ताहे ॥ ६३८० ॥ । त्रिकृत्वः खक्षेत्रे चतसृषु दिक्षु सक्रोशयोजने गवेषितस्यापि घृतादेव्यस्य यदा दुर्लभता भवति तदा सागारिकपिण्डस्य निषेवणं कर्तव्यम् ॥ ६३८० ॥ गतं सागारिकपिण्डद्वारम् । अथ राजपिण्डद्वारमाह
केरिसगु त्ति व राया ? भेदा पिंडस्स? के व से दोसा?।
केरिसग्गम्मि व कज्जे कप्पति? काए व जयणाए? ॥ ६३८१॥ 10 कीदृशोऽसौ राजा यस्य पिण्डः परिहियते ? इति । के वा 'तस्य' राजपिण्डस्य भेदाः ।।
के वा "से" तस्य ग्रहणे दोषाः ? । कीदृशे वा कायें राजपिण्डो ग्रहीतुं कल्पते । कया वा यतनया कल्पते । एतानि द्वाराणि चिन्तनीयानि ॥६३८१॥ तत्र प्रथमद्वारे निर्वचनं तावदाह
मुइए मुद्धभिसित्ते, मुतितो जो होइ जोणिसुद्धो उ ।
अभिसित्तो व परेहिं, सतं व भरहो जहा राया ॥ ६३८२ ॥ 15 राजा चतुर्दा–मुदितो मूर्धाभिषिक्तश्च १ मुदितो न मूर्धाभिषिक्तः २ न मुदितो मूर्धाभिषिक्तः ३ न मुदितो न मूर्धाभिषिक्तः । तत्र मुदितो नाम-यो भवति 'योनिशुद्धः' शुद्धोभयपक्षसम्भूतः, यस्य माता-पितरौ राजवंशीयाविति भावः । यः पुनः 'परेण' मुकुटबद्धेन पट्टबद्धेन
राज्ञी प्रजया वा राज्येऽभिषिक्तः । यो वा 'स्वयं' आत्मनैवाभिषिक्तो यथा भरतो राजा एष __ मूर्धाभिषिक्त उच्यते ॥ ६३८२ ॥ एषु विधिमाह
पढमग भंगे वजो, होतु व मा वा वि जे तहिं दोसा।
सेसेसु होतऽपिंडो, जहिँ दोसा ते वि वज्जति ॥६३८३॥ प्रथमे भङ्गे राजपिण्डः 'वर्यः' परित्यक्तव्यः, ये 'तत्र' राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथापि वर्जनीयः । 'शेषेषु' त्रिषु भङ्गेषु 'अपिण्डः' राजपिण्डो न भवति तथापि येषु दोषा भवन्ति 'तान्' द्वितीयादीनपि भङ्गान् वर्जयन्ति । इयमत्र भावना-यः सेनापति-मन्त्रि-पुरोहित-श्रेष्ठि-सार्थवाहसहितो राज्यं भुङ्क्ते तस्य पिण्डो वर्जनीयः, अन्यत्र तु भजनेति ॥ ६३८३ ॥ गतं कीदृशो राजा ?' इति द्वारम् । अथ 'के तस्य भेदाः' इति द्वारं चिन्तयन्नाह
असणाईआ चउरो, वत्थे पादे य कंबले चेव ।
पाउंछणए य तहा, अट्ठविधो रायपिंडो उ ॥ ६३८४ ॥ 30 'अशनादयः' अशन-पान-खादिम-खादिमरूपा ये चत्वारो भेदाः ४ यच्च वस्त्रं ५ पानं ६
१ परेणं इति पाठानुसारेण टीका, न चासौ पाठः कस्मिंश्चिदप्यादर्शे उपलभ्यते । कां• पुस्तके तु परेणं इति परेहिं इति पाठद्वयानुसारेण टीका, दृश्यतां टिप्पणी २ ॥ २ °ज्ञा 'परैर्वा' प्रधानपुरुषै राज्येऽ. भिषिक्तः स मूर्धाभिषिक्तः, यो वा स्वयं कां० ॥ ३ एतेषु चतुर्ध्वपि भङ्गेषु विधि का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org