________________
10
भाष्यगाथाः ६३७२-७९] षष्ठ उद्देशः ।
१६८३ आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति औद्देशिकस्य-साधूनुद्दिश्य कृतस्य भक्तादेश्चत्वारि नामानि । 'तत् पुनः' आधाकर्म कस्य कल्पते ? कस्य वा न कल्पते ॥६३७५॥ __एवं शिष्येण पृष्टे सूरिराह
संघस्सोह विभाए, समणा-समणीण कुल गणे संघे ।
कडमिह ठिते ण कप्पति, अहित कप्पे जमुद्दिस्स ॥ ६३७६ ॥ अस्यां व्याख्या सविस्तरं तृतीयोदेशके कृता अतोऽत्राक्षरार्थमात्रमुच्यते-ओघतो वा विभागतो वा सङ्घस्य श्रमणानां श्रमणीनां कुलस्य गणस्य सङ्घस्य वा सङ्कल्पेन यद् भक्तपानादिकं कृतं तत् 'स्थितकल्पिकानां' प्रथम-पश्चिमसाधूनां न कल्पते । ये पुनरस्थितकल्पे स्थिताः तेषां यमुद्दिश्य कृतं तस्यैवैकस्य न कल्पते अन्येषां तु कल्पते ॥ ६३७६ ॥ द्वितीयपदे तु स्थितकल्पिकानामपि कल्पते । यत आह
आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणा उ ।
तिक्खुत्तण्डविपवेसे, चउपरियट्टे ततो गहणं ॥ ६३७७ ॥ आचार्येऽभिषेके भिक्षौ वा ग्लाने सञ्जाते सति आधाकर्मणो 'भजना' सेवनाऽपि क्रियते । तथा अटवी-विप्रकृष्टोऽध्वा तस्यां प्रवेशे कृते यदि शुद्धं न लभ्यते ततः त्रिकृत्वः शुद्धमन्वेषितमपि यदि न लब्धं ततश्चतुर्थे परिव आधाकर्मणो ग्रहणं कायेम् ॥ ६३७७॥ 15 गतमौदेशिकद्वारम् । अथ शय्यातरपिण्डद्वारमाह
तित्थंकरपडिकुट्ठो, आणा अण्णात उग्गमों ण सुज्झे ।
अविमुत्ति अलाघवता, दुल्लभ सेजा विउच्छेदो ॥ ६३७८ ॥ आद्यन्तवर्जेमध्यमैर्विदेहजैश्च तीर्थकरैराधाकर्म कथञ्चिद् भोक्तमनुज्ञातं न पुनः शय्यातरपिण्डो अतस्तैः प्रतिक्रुष्ट इति कृत्वा वर्जनीयोऽयम् । “आण" ति तं गृह्णता तीर्थकृतामाज्ञा 20 कृता न भवति । "अण्णाय" ति यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोञ्छं सेवितं न स्यात् । "उम्गमो न सुज्झे" त्ति आसन्नादिभावतः पुनः पुनस्तत्रैव भिक्षा-पानकादिनिमित्तं प्रविशत उद्गमदोषा न शुध्येयुः । खाध्यायश्रवणादिना च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्च गृह्णता 'अविमुक्तिः' गााभावो न कृतः स्यात् । शय्यातर-तत्पुत्र-भ्रातृव्यादिभ्यो बहूपकरणं स्निग्धाहारं च गृह्णत उपकरण-शरीरयोर्लाघवं न स्यात् । तत्रैव चाहारादि गृह्णतः शय्या-25 तरवैमनस्यादिकरणात् शय्या दुर्लभा स्यात् , सर्वथा तयवच्छेदो वा स्यात् । अतस्तत्पिण्डो वर्जनीयः ॥ ६३७८ ॥ अथ द्वितीयपदमाह- .
दुविहे गेलण्णम्मि, निमंतणे दबदुल्लमे असिवे ।
ओमोदरिय पओसे, भए य गहणं अणुण्णातं ।। ६३७९ ॥ 'द्विविधे' आगाढा-ऽनागाढे ग्लानत्वे शय्यातर पिण्डोऽपि ग्राह्यः । तत्रागाढे क्षिप्रमेव 30 अनागाढे पञ्चकपरिहाण्या मासलघुके प्राप्ते सतीति । 'निमन्त्रणे च' शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः पुनः प्रसङ्गो निवारणीयः । दुर्लभे च क्षीरादिद्रव्येऽन्यत्रालभ्यमाने तथाऽशिवेs. १°ताः मध्यमसाधवो महाविदेहवर्तिसाधवश्च तेषां कां० ॥ २ °तृ-वन्ध्वादि डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org