________________
भाष्यगाथाः ६३६३-७१ षष्ठ उद्देशः।
१६८१ एवं 'जीर्णैः' पुराणैः, 'खण्डितैः' छिन्नैः, 'असर्वतनुप्रावृतैः' स्वल्पप्रमाणतया सर्वस्मिन् शरीरेऽप्रावृतैः प्रमाणहीनैरित्यर्थः, न च 'नित्यं सदैव प्रावृतैः किन्तु शीतादिकारणसद्भावे, एवंविधैश्चेलैः 'सद्भिरपि' विद्यमानैरपि निर्ग्रन्था अचेलका भवन्ति ॥ ६३६७ ॥ अत्र पराभिप्रायमाशय परिहरति
एवं दुग्गत पहिता, अचेलगा होति ते भवे वुद्धी ।
ते खलु असंततीए, धरैति ण तु धम्मवुद्धीए ॥ ६३६८ ॥ यदि जीर्ण-खण्डितादिभिर्वस्त्रैः प्रावृतैः साधवोऽचेलकास्तत एवं दुर्गताश्च-दरिद्राः पथिकाश्च-पान्था दुर्गत-पथिकास्तेऽपि अचेलका भवन्तीति 'ते' तव बुद्धिः स्यात् तत्रोच्यते'ते खलु' दुर्गत-पथिकाः 'असत्तया' नव-व्यूत-सदशकादीनां वस्त्राणामसम्पत्त्या परिजीर्णादीनि वासांसि धारयन्ति, न पुनर्धर्मबुद्ध्या, अतो भावतस्तद्विषयमूर्छापरिणामस्यानिवृत्तत्वान्नैते 10 अचेलकाः; साधवस्तु सति लाभे महाधनादीनि परिहृत्य जीर्ण-खण्डितादीनि धर्मबुद्ध्या धारयन्तीत्यतोऽचेला उच्यन्ते ॥ ६३६८॥ यद्येवमचेलास्ततः किम् ? इत्याह
आचेलको धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । ___ मज्झिमगाण जिणाणं, होति अचेलो सचेलो वा ॥ ६३६९ ॥ अचेलकस्य भाव आचेलक्यम् , तदत्रास्तीति आचेलक्यः, अभ्रादेराकृतिगणत्वादप्रत्ययः ।। एवंविधो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे भवति । मध्यमकानां तु जिनानामचेल: सचेलो वा भवति ॥ ६३६९ ॥ इदमेव भावयति
पडिमाएँ पाउता वा, णातिकमंते उ मज्झिमा समणा।
पुरिम-चरिमाण अमहद्धणा तु भिण्णा इमे मोत्तुं ॥ ६३७० ॥ 'मध्यमाः' मध्यमतीर्थकरसत्काः साधवः 'प्रतिमया वा' नमतया 'प्रावृता वा' प्रमाणा-30 तिरिक्त-महामूल्यादिभिर्वासोभिराच्छादितवपुषो नातिकामन्ति भागवतीमाज्ञामिति गम्यते । पूर्व-चरमाणां तु प्रथम-पश्चिमतीर्थकरसाधूनां 'अमहाधनानि' खल्पमूल्यानि 'भिन्नानि च अकृत्लानि, प्रमाणोपेतान्यदशकानि चेत्यर्थः, परमिमानि कारणानि मुक्तवा ॥ ६३७० ॥ तान्येवाह
आसज्ज खेत्तकप्पं, वासावासे अभाविते असहू।
काले अद्धाणम्मि य, सागरि तेणे व पाउरणं ॥ ६३७१ ॥ 'क्षेत्रकल्प' देशविशेषाचारमासाद्याभिन्नान्यपि प्रात्रियन्ते, यथा सिन्धुविषये तादृशानि प्रावृत्य हिण्ड्यते । वर्षावासे वा वर्षाकल्पं प्रावृत्य हिण्ड्यते । 'अभावितः' शैक्षः कृत्लानि प्रावृतो हिण्डते यावद् भावितो भवति । असहिष्णुः शीतमुष्णं वा नाधिसोढुं शक्नोति ततः कृत्स्नं प्रावृणुयात् । 'काले वा' प्रत्यूषे भिक्षार्थं प्रविशन् प्रावृत्य निर्गच्छेत् । अध्वनि वा प्रावृता 30 गच्छन्ति । यदि सागारिकप्रतिबद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादिभुवं गच्छन्ति । स्तेना वा पथि वर्तन्ते तत उत्कृष्टोपधिं स्कन्धे कक्षायां वा विण्टिकां कृत्वा उपरि १°स्तेऽपि जीर्ण-खण्डितादिवस्त्रपरिधायितया अचेल का ० ॥ २ वद्धे उपाश्रये भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org