SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६८० सनियुक्ति-लघुमाप्य-वृत्तिके बृहत्कल्पसूत्रे ( कल्प०प्रकृते सूत्रम् २० भवन्ति ततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्ण वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति ॥ ६३६२ ॥ । गता सामायिकसंयतकल्पस्थितिः । अथ च्छेदोपस्थापनीयसाधूनां कल्पस्थितिमाह दसठाणठितो कप्पो, पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुतरत कप्पो, दसठाणपतिहितो होति ॥ ६३६३ ॥ दशस्थानस्थितः कल्पः पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः । तदेवमेष भुंतरजाः कल्पो दशस्थानप्रतिष्ठितो भवति ॥ ६३६३ ॥ 10 तान्येव दश स्थानानि दर्शयति आचेलकुद्देसिय, सिजायर रायपिंड कितिकम्मे । [मलाराधना गा. ४२१] वत जेट्ट पडिक्कमणे, मासं-पज्जोसवणकप्पे ॥ ६३६४ ॥ आचेलक्यम् १ औद्देशिकं २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ "जे?" ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणं ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वार15 गाथासमासार्थः ॥ ६३६४ ॥ साम्प्रतमेनामेव विवरीषुराह दुविहो होति अचेलो, संताचेलो असंतचेलो य । तित्थगर असंतचेला, संताचेला भवे सेसा ॥ ६३६५ ॥ द्विविधो भवत्यचेलः-सदचेलोऽसदचेलश्च । तत्र तीर्थकरा असदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां चीवराभावात् । 'शेषाः' सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघ20 न्यतोऽपि रजोहरण-मुखवस्त्रिकाँसम्भवात् ॥ ६३६५॥ आह-यद्येवं ततः कथममी अचेला भण्यन्ते ? उच्यते सीसावेढियपुत्तं, णदिउत्तरणम्मि नग्गयं चेति । जुण्णेहि णग्गिया मी, तुर सालिय! देहि मे पोत्तिं ॥ ६३६६ ॥ जलतीमनभयात् शीर्षे-शिरसि आवेष्टितं पोतं-परिधानवस्त्रं येन स शीर्षावेष्टितपोतस्तम्, 25 एवंविधं सचेलमपि 'नद्युत्तरणे' अगाधायाः कस्याश्चिद् नद्या उत्तरणं कुर्वन्तं दृष्ट्वा नग्नकं ब्रुवते, 'नमोऽयम्' इति लोके वक्तारो भवन्तीत्यर्थः । यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनं तन्तुवायं शाटिकानिष्पादनालसं ब्रवीति, यथा-जीर्णैर्वस्त्रैः परिहितैग्निकाऽहमस्मि ततस्त्वरख 'हे शालिक !' तन्तुवाय ! देहि मे 'पोतिका' शाटिकाम् ॥ ६३६६ ॥ अथात्रैवोपनयमाह30 जुन्नेहिँ खंडिएहिं य, असव्वतणुपाउतेहिं ण य णिचं । संतेहिं वि णिग्गंथा, अचेलगा होति चेलेहिं ।। ६३६७ ॥ . १°यसंयतकल्प' कां ॥ २'धुतरजाः' प्रक्षालितसकलपापमलपटलः कल्पो का० ॥ ३°कालक्षणोपकरणद्वयसम्भ° कां०॥ ४°या मि, तुर तामा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy