________________
भाष्यगाथाः ६३५३-६२] षष्ठ उद्देशः ।
१६७९ चउठाणठिओ कप्पो, छहिं ठाणेहिँ अडिओ।
एसो धूयरय कप्पो, दसहाणपतिहिओ ॥ ६३५९ ॥ चतुःस्थानस्थितः कल्पः, षट्सु च स्थानेष्वस्थितः । तदेवमेष धुतरजाः सामायिकसयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित् पुनरस्थित्या दशसु स्थानेषु प्रतिबद्धो मन्तव्य इत्यर्थः ॥ ६३५९ ॥ इदमेव व्यक्तीकरोति
चउहिँ ठिता छहिँ अठिता, पढमा वितिया ठिता दसविहम्मि ।
वहमाणा णिव्विसगा, जेहि वहं ते उ णिविट्ठा ॥ ६३६०॥ 'प्रथमाः' सूत्रक्रमप्रामाण्येन सामायिकसंयतास्ते चतुषु स्थानेषु स्थिताः, षट्सु पुनरस्थिताः । गाथायां सप्तम्यर्थे तृतीया । ये तु 'द्वितीयाः' छेदोपस्थापनीयसंयतास्ते देशविधेऽपि कल्पे स्थिताः । पश्चार्द्धन तृतीय-चतुर्थकल्पस्थित्योः शब्दार्थमाह-"वहमाणा" इत्यादि । ये 10 परिहारविशुद्धिकं तपो वहन्ति ते निर्विशमानकाः । यैस्तु तदेव तपो व्यूढं ते निर्विष्टकायिका उच्यन्ते ॥ ६३६० ॥ आह–कानि पुनस्तानि चत्वारि षड् वा स्थानानि येषु सामायिकसंयता यथाक्रमं स्थिता अस्थिताश्च ? इति अत्रोच्यते
सिजायरपिंडे या, चाउजामे य पुरिसजेटे य ।
कितिकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा ॥ ६३६१॥ 16 "सिज्जातरपिंडे" त्ति "सूचनात् सूत्रम्" इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्च धर्मः कृतिकर्मणश्च करणम् । एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि-सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्च शय्यातरपिण्डं परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्मः' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि तदिनदीक्षितमपि साधु वन्दन्ते, कृतिकर्म च यथारानिकं तेऽपि कुर्वन्ति । अत एते चत्वारः कल्पा-30 अवस्थिताः ॥ ६३६१ ॥ इमे पुनः षडनवस्थिताः
__ आचेलकुद्देसिय, सपडिकमणे य रायपिंडे य ।
मासं पज्जोसवणा, छऽप्पेतऽणवद्विता कप्पा ॥६३६२॥ आचेलक्यमौदेशिकं सप्रतिक्रमणो धर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेति षडप्येते कल्पा मध्यमसाधूनां विदेहसाधूनां चानवस्थिताः । तथाहि-यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो 25 वा उत्पद्यते तदा अचेलाः, अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृहन्तीति भावः । 'औद्देशिकं नाम' साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोरर्थाय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावे न कुर्वन्ति । राजपिण्डे यदि वक्ष्यमाणा दोषा
१ 'चतुःस्थानस्थितः' वक्ष्यमाणनीत्या शय्यातरपिण्डपरिहारादौ स्थानचतुष्टये निय. मेन कृतावस्थानः कल्पः, 'बटस च स्थानेष' आचेलक्यादिष वक्ष्यमाणनीयवास्थितः । तदेव को० ॥ २ 'दशविधेऽपि' वक्ष्यमाणलक्षणे कल्पे 'स्थिताः' अवश्यन्तया कृतावस्थानाः। पश्चा कां० ॥ ३ °काः । “जेहि वहं ते उ निविट्ट" त्ति प्राकृतत्वाद् यैस्तु का.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org