________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् २० जय गमणं तु गतिमतो, होज पुढो तेण सो ण गच्छेजा ।
जह गमणातो अण्णा, ण गच्छति वसुंधरा कसिणा ॥ ६३५३ ॥ यदि गमनं गतिमतः पुरुषादेः पृथग् भवेत् ततः 'असौ' गतिमान् न गच्छेत् । दृष्टान्तमाह-यथा गमनात् 'अन्या' पृथग्भूता 'कृत्स्ना' सम्पूर्णा वसुन्धरा न गच्छति । कृत्स्नाग्रहणं लेष्टुपमृतिकस्तदवयवो गच्छेदपि इति ज्ञापनार्थम् । एवं स्थानेऽपि भावनीयम् ॥ ६३५३ ॥ यत एवमतः स्थितमेतत्
ठाण-द्विइणाणत्तं, गति-गमणाणं च अत्थतो णत्थि ।
वंजणणाणत्तं पुण, जहेव वयणस्स वायातो ॥ ६३५४ ॥ स्थान-स्थित्योर्गति-गमनयोश्वार्थतो नास्ति नानात्वम् , एकार्थत्वात् ; व्यञ्जननानात्वं पुनरस्ति । 10 यथैव वचनस्य वाचश्च परस्परमर्थतो नास्ति भेदः, शब्दतः पुनरस्तीति ॥ ६३५४ ॥ अथवा नात्र स्थितिशब्दोऽवस्थानवाची किन्तु मर्यादावाचकः । तथा चाह
अहवा ज एस कप्पो, पलंबमादि बहुधा समक्खातो।
छट्ठाणा तस्स ठिई, ठिति त्ति मेर त्ति एगट्ठा ॥ ६३५५ ॥ अथवा य एष प्रस्तुतशास्त्रे प्रलम्बादिकः 'बहुधा' अनेकविधः कल्पः समाख्यातः तस्य 15 षट्स्थाना' षट्प्रकारा स्थितिर्भवति । स्थितिरिति मर्यादा इति चैकार्थो शब्दौ ॥ ६३५५ ।। भूयोऽपि विनेयानुग्रहार्थ स्थितेरेवैकार्थिकान्याह
पतिद्वा ठावणा ठाणं, ववत्था संठिती ठिती ।
अवट्ठाणं अवत्था य, एकट्ठा चिट्ठणाऽऽति य ॥ ६३५६ ॥ प्रतिष्ठा स्थापना स्थानं व्यवस्था संस्थितिः स्थितिः अवस्थानम् अवस्था च, एतान्येकार्थि20कानि पदानि । तथा "चिट्ठणं" ऊर्द्धस्थानम् आदिशब्दाद् निषदनं त्वग्वर्तनं च, एतानि त्रीण्यपि स्थितिविशेषरूपाणि मन्तव्यानि ॥ ६३५६ ॥ सा च कल्पस्थितिः षोढा, तद्यथा
सामाइए य छेदे, निविसमाणे तहेव निबिडे ।
जिणकप्पे थेरेसु य, छव्विह कप्पट्टिती होति ॥ ६३५७ ॥ सामायिकसंयतकल्पस्थितिः छेदोपस्थापनीयसंयतकल्पस्थितिः निर्विशमानकल्पस्थितिः तथैव 25 निर्विष्टकायकल्पस्थितिः जिनकल्पस्थितिः स्थविरकल्पस्थितिश्चेति षड्विधा कल्पस्थितिः ॥ ६३५७ ॥ अथैनामेव यथाक्रमं विवरीषुः प्रथमतः सामायिककल्पस्थिति विवृणोति
कतिठाण ठितो कप्पो, कतिठाणेहिँ अद्वितो।
वुत्तो धृतरजो कप्पो, कतिठाणपतिद्वितो ॥ ६३५८ ॥ यः किल 'धुतरजाः' अपनीतपापकर्मा सामायिकसाधूनां 'कल्पः' आचारो भगवद्भिरुक्तः 30 स कतिषु स्थानेषु स्थितः ? कतिषु च स्थानेषु अस्थितः ? कतिस्थानप्रतिष्ठितश्चोक्तः ? ॥ ६३५८ ॥ सूरिराह
१ 'म्बविधि-मासकल्पविधिप्रभृतिकोऽनेक का० ॥ २ वृण्वन् शिष्येण प्रश्नं कारयति-कति कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org