________________
भाष्यगाथाः ६३४७-५२] पष्ठ उद्देशः ।
१६७७ समाचारे स्थितिः-अवस्थानं कल्पस्थितिः कल्पस्य वा स्थितिः-मर्यादा कल्पस्थितिः 'प्रज्ञप्ता' तीर्थकर-गणधरैः प्ररूपिता । तद्यथा' इति उपन्यासार्थः । 'सामायिकसंयतकल्पस्थितिः' समः-राग-द्वेषरहितस्तस्य आयः-लाभो ज्ञानादीनां प्राप्तिरित्यर्थः, समाय एव सामायिकं-सर्वसावद्ययोगविरतिरूपम् तत्प्रधाना ये संयताः-साधवस्तेषां कल्पस्थितिः सामायिकसंयतकल्पस्थितिः १ । तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं यत् तत् छेदोपस्थापनीयम् , 6 व्यक्तितो महावतारोपणमित्यर्थः, तत्प्रधाना ये संयताम्तेषां कल्पस्थितिः छेदोपस्थापनीयसंयतकल्पस्थितिः २ । निर्विशमानाः-परिहारविशुद्धिकल्पं वहमानास्तेषां कल्पस्थितिः निर्विशमानकल्पस्थितिः ३ । निर्विष्टकायिका नाम-यैः परिहारविशुद्धिकं तपो व्यूढम् , निर्विष्टः-आसेवितो विविक्षितचारित्रलक्षणः कायो यैस्ते निर्विष्टकायिका इति व्युत्पत्तेः, तेषां कल्पस्थितिः निर्विष्टकायिककल्पस्थितिः ४ । जिनाः-गच्छनिर्गताः साधुविशेषास्तेषां कल्पस्थितिः जिन- 10 कल्पस्थितिः ५ । स्थविरा:-आचार्यादयो गच्छप्रतिवद्धास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः ६ । 'इतिः' अध्ययनपरिसमाप्तौ । 'ब्रवीमि' इति तीर्थकर-गणधरोपदेशेन सकलमपि प्रस्तुतशास्त्रोक्तं कल्पा-ऽकल्पविधि भणामि, न पुनः खमनीषिकया इति सूत्रस पार्थः ॥ सम्प्रति विस्तरार्थं विभणिषुर्भाष्यकारः कल्लास्थितिपदे परस्याभिप्रायमाशय परिहरन्नाह
आहारो त्ति य ठाणं, जो चिट्ठति सो ठिइ त्ति ते बुद्धी। 15
ववहार पडुच्चेवं, ठिईरेव तु णिच्छए ठाणं ॥ ६३५० ॥ "कल्पस्थितिः" इति सूत्रे यत् पदं तत्र कल्पः-आधार इति कृत्वा स्थानम्, यस्तु तत्र कल्पे तिष्ठति स स्थितेरनन्यत्वात् स्थितिः, ततश्चैवं पृथग्नामा-ऽभिधेयत्वेन स्थिति-स्थानयोः परस्परमन्यत्वमापन्नमिति 'ते' तव बुद्धिः स्यात् तत्रोच्यते-'व्यवहारं' व्यवहारनयं प्रतीत्य 'एवं' स्थिति-स्थानयोरन्यत्वम् , 'निश्चयतस्तु' निश्चयनयाभिप्रायेण यैव स्थितिस्तदेव स्थानम् , 20 तुशब्दाद् यदेव स्थानं सैव स्थितिः ॥ ६३५० ॥ कथं पुनः ? इत्यत आह
ठाणस्स होति गमणं, पडिवक्खो तह गती ठिईए तु ।
एतावता सकिरिए, भवेज ठाणं व गमणं वा ॥ ६३५१ ॥ सक्रियस्य जीवादिद्रव्यस्य तावदेतावदेव क्रियाद्वयं भवति-स्थानं वा गमनं वा । तत्र स्थानस्य गमनं प्रतिपक्षो भवति, तत्परिणतस्य स्थानाभावात् । एवं स्थितेरपि गतिः प्रतिपक्षो 25 भवति ।। ६३५१ ॥ ततः किम् ? इत्याह
ठाणस्स होति गमणं, पडिपक्खो तह गती ठिईए उ।
ण य गमणं तु गतिमतो, होति पुढो एवमितरं पि ॥ ६३५२ ॥ स्थानस्य गमनं प्रतिपक्षो भवति न स्थितिः, स्थितेरपि गतिः प्रतिपक्षो न स्थानम् , एवं स्थिति-स्थानयोरेकत्वम् । तथा 'न च' नैव गमनं गतिमतो द्रव्यात् 'पृथग्' व्यतिरिक्तं भवति, 30 एवम् 'इतरदपि' स्थानं स्थितिमतो द्रव्यादव्यतिरिक्तं मन्तव्यम् ॥ ६३५२ ।। ___ इदमेव व्यतिरेकद्वारेण द्रढयति
१ ठिति चेव तु ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org