________________
१६७५
10
भाष्यगाथाः ६३४१-४६] षष्ठ उद्देशः ।
एवं सुनीहरो मे, होहिति अप्प ति तं परिहरंति ।
हंदि । हुणेच्छंति भवं, भववोच्छित्तिं विमग्गंता ॥ ६३४४॥ 'एवम्' अवधारणे । किमवधारयति ? दरिद्रकुले उत्पन्नस्य 'मे' ममात्माऽसंयमात् 'सुनिर्हरः' सुनिर्गमो भविष्यति, सुखेनैव संयममङ्गीकरिष्यामि इत्यर्थः; 'इति' ईदृशमपि यद् निदानं तदपि साधवः परिहरन्ते । कुतः ? इत्याह-'हन्दि !' इति नोदकामन्त्रणे । हुः इति यस्मादर्थे । । हे सौम्य ! यस्माद् निदानकरणेन भवानां परिवृद्धिर्भवति, सर्वोऽपि च प्रव्रज्याप्रयत्नोऽस्माकं भवव्यवच्छित्तिनिमित्तम् , ततो भवव्यवच्छित्तिं विविधैः प्रकारैर्गियन्तः साधवो भवं नेच्छन्ति ॥ ६३४४ ॥ अमुमेवार्थ दृष्टान्तेन द्रढयति--
जो रयणमणग्धेयं, विकिजऽप्पेण तत्थ किं साहू ।
दुग्गयभवमिच्छंते, एसो च्चिय होति दिद्रुतो ॥ ६३४५॥ यः 'अनर्थ्यम्' इन्द्रनील-मरकतादिकं रत्नम् 'अल्पेन' खल्पमूल्येन काचादिना विक्रीणीयात् तत्र 'किं साधु' किं नाम शोभनम् ? न किञ्चिदित्यर्थः । 'दुर्गतभवं' दरिद्रकुलोत्पत्तिमिच्छत एष एव दृष्टान्त उपनेतव्यो भवति । तथाहि-अनयरत्नस्थानीयं चारित्रम् , निरुपमा-ऽनन्तानन्दमयमोक्षफलसाधकत्वात् ; काचशकलस्थानीयो दुर्गतभवः, तुच्छत्वात् । ततो यश्चारित्रविक्रयेण तत्प्रार्थनं करोति स मन्दभाग्योऽनर्ध्यरत्नं विक्रीय काचशकलं गृहातीति 15 मन्तव्यम् ॥ ६३४५॥ अपि च
संग अणिच्छमाणो, इह-परलोए य मुञ्चति अवस्सं ।
एसेव तस्स संगो, आसंसति तुच्छतं जं तु ॥ ६३४६ ॥ इहलोकविषयं परलोकविषयं च 'सङ्गं' मुक्तिपदप्रतिपक्षभूतमभिष्वङ्गमनिच्छन्नवश्यं 'मुच्यते' कर्मविमुक्तो भवति । कः पुनस्तस्य सङ्गः ? इत्याह-एष एव तस्य सङ्गो यद् 20 मोक्षाख्यविपुलफलदायिना तपसा तुच्छकं फलम् 'आशास्ते' प्रार्थयति ॥ ६३४६ ॥
१ मन्तव्यम् । तथा च दशाश्रुतस्कन्धसूत्रम्-एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, जस्स णं धम्मस्स निग्गंथे वा निग्गंधी वा सिक्खाए उवढ़िए इमं एयारूवं नियाणं करेजा-जइ इमस्स तव-नियम-वंभचेरवासस्स फलवित्तिविसेसे अत्थि तो वयमवि आगमिस्सा णं जाई इमाइं अंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा एएसि णं अन्नयरंसि कुलंसि पुमत्ताए पञ्चायामो एवं मे आया परियाए सुनीहरे भविस्सह । एवं खलु समणाउसो ! निग्गंथे वा निग्गंथी वा नियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिकंते कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववजिता ताओ देवलोगाओ आउक्खएणं ३ अणंतरं चयं चइत्ता अंत-तच्छ-दरिहकलेस पञ्चायाइ से णं भंते ! तहारूवाणं थेराणं अंतिए केवलिपन्नत्तं धम्म पडिसुणित्ता पव्वइजा? हंता! पव्वइजा । से णं भंते ! तेणेव भवग्गहणेणं सिज्झिजा? नो इणटे समढे, एवं खलु समणाउसो! तस्स नियाणस्स पावए फलविवागे जं नो संचाएइ तेणेव भवग्गणेणं सिज्झित्तए ॥ यत एवमतो न विधेयं निदानम् ॥ ६३४५॥ अपि च कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org