________________
१६७४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिमन्थप्रकृते सूत्रम् १९
कष्टं न लभ्यते ग्लानयोग्यमत्र' इत्येवंरूपा कार्या । इच्छालोभे पुनरिदं द्वितीयपदम् — वैद्यस्य दानार्थं ग्लानार्थं वा आहार उपधिश्चातिरिक्तोऽपि ग्रहीतव्यः, आदिशब्दाद् आचार्यादिपरिग्रहः, गणचिन्तको वा गच्छोपग्रह हेतोरतिरिक्तमुपधिं धारयेत् ॥ ६३४० ॥ एवं तावद् निदानपदं वर्जयित्वा शेषेषु सर्वेष्वपि ग्लानत्वमङ्गीकृत्य द्वितीयपदमुक्तम् । सम्प्रति तदेवाध्वनि दर्शयतिअवयक्खंतो व भया, कहेति वा सत्थिया ऽऽतिअत्तीणं । सुतं वा, खेद भदा वा अणाभोगा ।। ६३४१ ॥
विजं
अध्वनि स्तेनानां सिंहादीनां वा भयादप्रेक्षमाण इतश्चेतश्च विलोकमानोऽपि व्रजेत् । यदि वा अध्वनि गच्छन् सार्थिकानाम् 'आयत्तिकानां वा' सार्थचिन्तकानां धर्मं कथयति येन ते आवृत्ताः सन्तो भक्तपानाद्युपग्रहं कुर्युः । अथवा विद्या काचिदभिनव गृहीता सा ' मा विस्म10 रिष्यति' इति कृत्वा परिवर्तयन्ननुप्रेक्षमाणो वा गच्छेत् । 'आदिश्रुतं' पञ्चमङ्गलं तद्वा चौरादिभये परावर्तयन् व्रजेत् । ' खेदो नाम' परिश्रमः तेन आतुरीभूतो भयाद्वा सम्भ्रान्त ईर्यायामुपयुक्तो न भवेदपि । “अणाभोग" ति विस्मृतिवशात् सहसा वा नेर्यायामुपयोगं कुर्यात् ॥ ६३४१॥ संजोयणा पलंबातिगाण कप्पादिगो य अतिरेगो ।
ओमादि वि विहुरे, जोइजा जं जहिं कमति ॥ ६३४२ ॥
5
15 अध्वनि गच्छन्नाहारादीनां संयोजनामपि कुर्यात् । प्रलम्बादीनां विकरणकरणाय पिप्पलकादिकमतिरिक्तमप्युपधिं गृह्णीयाद् धारयेद्वा । अथवा परलिङ्गेन तानि ग्रहीतव्यानि ततः परलिङ्गमपिं धारयेत् । कल्पाः - और्णिकादयस्तदादिकः आदिशब्दात् पात्रादिकश्च दुर्लभ उपधिरतिरिक्तोऽपि ग्रहीतव्यः । तदेवमध्वनि द्वितीयपदं भावितम् । एवम् अवमं - दुर्भिक्षं तत्र आदिशब्दाद् अशिवादिकारणेषु वा 'विधुरे' आत्यन्तिकायामापदि पञ्चविधं परिमन्थुमङ्गीकृत्य 20 यद् यत्र द्वितीयपदं क्रमते तत् तत्र योजयेत् । एवं निदानपदं मुक्त्वा पञ्चखपि कौकुचिका - दिषु परिमन्धुषु द्वितीयपदमुक्तम् ॥ ६३४२ ॥ आह - निदाने किमिति द्वितीयपदं नोक्तम् ? उच्यते - नास्ति । कुतः ? इति चेद् अत आह—
जा साबणसेवा, तं बीयपदं वयंति गीयत्था । आलंवणरहियं पुण, निसेवणं दप्पियं वेंति ।। ६३४३ ॥
25 या ‘सालम्बनसेवा' ज्ञानाद्यालम्बनयुक्ता प्रतिषेवा तां द्वितीयं पदं गीतार्था वदन्ति, आलम्ब - नरहितां पुनः 'निषेवणां' प्रतिषेवां दर्पिकां ब्रुवते । तच्चालम्बनं निदानकरणे किमपि न विद्यते, “सव्वत्थ अनियाणया भगवया पसत्थे "ति वचनात् ॥ ६३४३ ॥'
आह - भोगार्थं विधीयमानं निदानं तीत्रविपाकं भवतीति कृत्वा मा क्रियताम्, यत् पुनरमुना प्रणिधानेन निदानं करोति - मा मम राजादिकुले उत्पन्नस्य भोगाभिष्वक्तस्य प्रव्रज्या 30 न भविष्यतीत्यतो दरिद्र कुलेऽहमुत्पद्येयम्, तत्रोत्पन्नस्य भोगाभिष्वङ्गो न भविष्यति; एवं निदानकरणे को दोषः ? सूरिराह -
१ अजितसुतं कां विना । अहियसुतं ताभा० । “ आदिसुतं पंचमंगलं, दंडपरिहारणिमित्तं अणु‘पेहंतो परियहंतो वा वच्चैज्ज” इति विशेषचूर्णो ॥ २ अत्रान्तरे ग्रन्थाग्रम् - ९५०० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org