________________
15
भाष्यगाथाः ६३३२-४०] षष्ठ उद्देशः ।
१६७३ कडिवेयणमवतंसे, गुदागरिमा भगंदलं वा वि ।
गुदखील सक्करा वा, ण तरति वद्धासणो होउं ॥ ६३३६ ॥ कटिवेदना कस्यापि दुःसहा, 'अवतंसो वा' पुरुषव्याधिनामको रोगो भवेत् , एवं गुदयोः पाकोऽर्शासि भगन्दरं गुदकीलको वा भवेत् , 'शर्करा' कृच्छ्रमूत्रको रोगः स वा कस्यापि भवेत् , ततो न शक्नोति बद्धासनः ‘भवितुं' स्थातुम् । एवंविधे ग्लानत्वेऽभीक्ष्णपरिस्पन्दनादिकं । स्थानकौकुचिकत्वमपि कुर्यात् ।। ६३३६ ॥
उव्यत्तेति गिलाणं, ओसहकज्जे व पत्थरे छुभति ।
वेवति य खित्तचित्तो, वितियपदं होति दोसुं तु ॥ ६३३७ ॥ ग्लानम् 'उद्वर्तयति' एकस्मात् पार्श्वतो द्वितीयस्मिन् पार्श्वे करोति, 'औषधकार्ये वा' औषधदानहेतोस्तमेव ग्लानमन्यत्र सङ्क्राम्य भूयस्तत्रैव स्थापयति, यस्तु क्षिप्तचित्तः स परवश- 10 तया 'प्रस्तरान्' पाषाणान् क्षिपति वेपते वा, चशब्दात् सेण्टितं मुखवादित्रादिकं वा कैरोति । एतद् द्वितीयपदं यथाक्रमं 'द्वयोरपि' शरीर-भाषाकौकुचिकयोर्भवति ॥ ६३३७ ॥ मौखरिकत्वेऽपवादमाह
तुरियगिलाणाहरणे, मुहरितं कुञ्ज वा दुपक्खे वी।
__ ओसह विज्जं मंतं, पेल्लिज्जा सिग्घगामि त्ति ॥ ६३३८॥ त्वरितं ग्लाननिमित्तमौषधादेः आहरणे कर्तव्ये 'द्विपक्षे' संयतपक्षे संयतीपक्षे च मौखरिकत्वं कुर्यात् । कथम् ? इत्याह-एष शीघ्रगामी अत औषधमानेतुं विद्यां मन्नं वा प्रयोक्तुं "पेल्लिज' ति प्रेर्यताम् , व्यापार्यतामित्यर्थः ॥ ६३३८ ॥
अच्चाउरकजे वा, तुरियं व न वा वि इरियमुवओगो ।
विजस्स वा वि कहणं, भए व विस मूल ओमजे ॥ ६३३९ ॥ 20 अत्यातुरस्य वा-आगाढग्लानस्य कार्ये त्वरितं गच्छेत् , 'न वाऽपि' नैवेर्यायामुपयोगं दद्यात्, वैद्यस्य वा 'कथनं' धर्मकथां कुर्वन् गच्छेद् येन स आवृत्तः सम्यग् ग्लानस्य चिकित्सां करोति, भये वा मन्त्रादिकं परिवर्तयन् गच्छति, विषं वा केनापि साधुना भक्षितं तस्य मन्त्रेणापमार्जनं कुर्वन् , विषविद्या वा नवगृहीता तां परिवर्तयन् गच्छति, शूलं वा कस्यापि साधोरुद्धावति तदपमार्जयन् गच्छति ॥ ६३३९॥
तितिणिया वि तदट्ठा, अलब्भमाणे वि दव्वतितिणिता।
वेजे गिलाणगादिसु, आहारुवधी य अतिरित्तो ॥ ६३४० ॥ _तस्य-ग्लानस्य उपलक्षणत्वाद् आचार्यादेश्वार्थाय 'तिन्तिणिकताऽपि' स्निग्ध-मधुराहारादिसं. योजनलक्षणा कर्तव्या । अलभ्यमाने वा ग्लानप्रायोग्ये औषधादौ 'द्रव्यतिन्तिणिकता' 'हा!
१ यति, स एव ग्लानमितस्ततः कुर्वन् स्थापयन् वा स्थानकौकुचिकत्वं विदध्यादपि। तथा यस्तु क्षिप्तचित्तः उपलक्षणत्वाद् दीप्तचित्तादिर्वा स परवश कां० ॥ २ करोति महता शब्देन हसति वा । एत° कां० ॥ ३ अथ चक्षुर्लोलत्वे द्वितीयपदमाह इत्यवतरण का० ॥ ४ 'ग्ये पथ्यौषधादौ द्रव्ये-द्रव्यतश्चित्ताभिष्वङ्गमन्तरेण तिन्ति का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org