________________
१६७२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिमन्थप्रकृते सूत्रम् १९
‘परिहाणिः' सूत्रार्थपरिमन्थो भाजनान्तरगवेपणे तत्परिकर्मणायां च भवति ॥ ६३३१ ॥ गतश्चक्षुर्लोलः । अथ तिन्तिणिकमाह
तितिणिऍ पुत्र भणिते, इच्छालोभे य उवहिमति रेगे ।
6
लहुओ तिविहं व तर्हि, अतिरेगे जे भणिय दोसा ॥ ६३३२ ॥ तिन्तिणिक आहारोपधि-शय्याविषयभेदात् त्रिविधः, स च ' पूर्व' पीठिकायां सप्रपञ्चमुक्त इति होच्यते । स च सुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्धुर्भवतीति । इच्छालोभस्तु स उच्यते यद् लोभाभिभूतत्वेनोपधिमतिरिक्तं गृह्णाति तत्र लघुको मासः । त्रिविधं वा तत्र प्रायश्चित्तम् । तद्यथा - जघन्ये उपधौ प्रमाणेन गणनया वाऽतिरिक्ते धार्यमाणे पञ्चकम्, मध्यमे मासलघु, उत्कृष्टे चतुर्लघु । ये चातिरिक्ते उपधौ दोषाः पूर्वं तृतीयोदेशके 10 भणितास्ते द्रष्टव्याः || ६३३२ ॥ अथ निदानकरणमाह
अनियाणं निव्वाणं, काऊणमुट्ठितो भवे लहुओ ।
पावति धुवमायाति, तम्हा अणियाणया सेया ।। ६३३३ ॥ 'अनिदानं ' निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रज्ञप्तम्, ततो यो निदानं करोति तस्य तत् कृत्वा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम् । अपि च यो निदानं 15 करोति स यद्यपि तेनैव भवग्रहणेन सिद्धिं गन्तुकामस्तथापि 'ध्रुवम्' अवश्यम् ' आयातिं ' पुनर्भवागमनं प्राप्नोति, तस्मादनिदानता श्रेयसी ॥ ६३३३ ॥ इदमेव व्याचष्टे – इह-परलोग निमित्तं, अवि तित्थकरत्तचरिमदेहत्तं ।
सव्वत्थेसु भगवता, अणिदाणत्तं पसत्थं तु ।। ६३३४ ॥
इहलोकनिमित्तम्- 'इहैव मनुष्यलोकेऽस्य तपसः प्रभावेण चक्रवर्त्त्यादिभोगानहं प्राप्नुयाम्, 20 इहैव वा भवे विपुलान् भोगानासादयेयम्' इतिरूपम् परलोकनिमित्तं - मनुष्यापेक्षया देवभवादिकः परलोकस्तत्र ‘महर्द्धिक इन्द्रसामानिकादिरहं भूयासम् ' इत्यादिरूपं सर्वमपि निदानं प्रतिषिद्धम् । किं बहुना ? तीर्थकरत्वेन - आर्हन्त्येन युक्तं चरमदेहत्वं मे भवान्तरे भूयात् इत्येतदपि नाशंसनीयम् । कुतः ? इत्याह – 'सर्वार्थेषु' सर्वेष्वपि - ऐहिका - ऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवताऽनिदानत्वमेव ' प्रशस्तं ' श्लाघितम् । तुशब्द एवकारार्थः, स 25 च यथास्थानं योजितः || ६३३४ ॥
व्याख्याताः षडपि परिमन्थवः । साम्प्रतमेतेष्वेव द्वितीयपदमाह -
बियपदं गेलणे, अद्धाणे चेव तह य ओमम्मि ।
मोत्तूर्णं चरिमपदं णायव्वं जं जहिं कमति ।। ६३३५ ॥
द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति, तच्च 'चरमपदं' निदान करणरूपं 30 मुक्तत्वा ज्ञातव्यम्, तत्र द्वितीयपदं न भवतीत्यर्थः । शेषेषु तु कौकुचिकादिषु यद् यत्र क्रमते तत् तत्रावतारणीयम् || ६३३५ ॥ एतदेव भावयति
१
द्वितीयपदं क्रमते तत् तत्रावतारणीयम् । एषा निर्युक्तिगाथा ॥ ६३३५॥ अथैनामेव भाष्यकृद् व्याख्यानयति - कडि कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org