________________
भाष्यगाथाः ६३२४-३१] षष्ठ उद्देशः।
१६७१ मौखरिकस्य 'गौणं' गुणनिष्पन्नं नाम 'मुखेन' प्रभूतभाषणादिमुखदोषेण भाषमाणः 'अरिं' वैरिणम् 'आवहति' करोतीति मौखरिकः । तस्यैवं मौखरिकत्वं कुर्वाणस्य लघुको मासः आज्ञादयश्च दोषाः। विराधना च संयमा-ऽऽत्मविषया द्विविधा । तत्र संयमविराधना मौखरिकस्य सत्यव्रतपरिमन्थुतया सुप्रतीता ॥ ६३२७ ॥ आत्मविराधनां तु दृष्टान्तेनाह
- को गच्छेजा तुरियं, अमुगो ति य लेहएण सिहम्मि।
सिग्घाऽऽगतो य ठवितो, केणाहं लेहगं हणति ।। ६३२८ ॥ एगो राया । तस्स किंचि तुरियं कजं उप्पन्नं ताहे सभामज्झे भणइ-को सिग्धं वच्चेजा है। लेहगो भणइ-अमुगो पवणवेगेणं गच्छइ ति । रन्ना सो पेसिओ तं कर्ज काऊण तदिवसमेव आगओ । रन्ना 'एसो सिग्धगामि' ति काउं धावणओ ठविओ। तेण रुटेणं पुच्छियं-केणाहं सिग्यो त्ति अक्खातो? । अन्नेण सिटुं-जहा लेहएणं । पच्छा सो 10 तेण तल्लिच्छेण छिदं लद्भूण उद्दविओ। एवं चेव जो संजओ मोहरियत्तं करेइ सो आयविराहणं पावेइ ति ॥
अक्षरार्थस्त्वयम् -'कस्त्वरितं गच्छेत् ?' इति राज्ञोक्ते लेखकेन शिष्टम्-अमुक इति। ततः स तत् कार्य कृत्वा शीघ्रमागतः। ततः 'स्थापितः' राज्ञा दौत्यकर्मणि नियुक्तः। ततः 'केनाहं कथितः ?' इति पृष्ट्वा 'लेखकेन' इति विज्ञाय लेखकं हतवान् । गाथायामतीतकालेऽपि 15 वर्तमानानिर्देशः प्राकृतत्वात् ॥ ६३२८ ॥ गतो मौखरिकः । अथ चक्षुर्लोलमाह
आलोयणा य कहणा, परियऽणुपेहणा अणाभोए।
लहुगो य होति मासो, आणादि विराहणा दुविहा ॥ ६३२९ ॥ स्तूपादीनामालोकनां कुर्वाणः 'कथनां' धर्मकथां परिवर्तनाम् अनुप्रेक्षां च कुर्वन् यदि 'अनाभोगेन' अनुपयुक्तो मार्गे ब्रजति तदा लघुमासः, आज्ञादयश्च दोषाः, द्विविधा च 20 विराधना भवेत् ॥ ६३२९ ॥ इदमेव भावयति
आलोएंतो वच्चति, शुभादीणि व कहेति वा धम्म ।
परियट्टणाऽणुपेहण, न यावि पंथम्मि उवउत्तो ॥ ६३३०॥ 'स्तूपादीनि' स्तूप-देवकुला-ऽऽरामादीनि आलोकमानो धर्म वा कथयन् परिवर्तनामनुप्रेक्षा वा कुर्वाणो व्रजति । यद्वा सामान्येन 'न च' नैवोपयुक्तः पथि व्रजति एष चक्षुलोल उच्यते 25 ॥ ६३३० ॥ अस्यैते दोषाः
छक्कायाण विराहण, संजमें आयाएँ कंटगादीया ।
आवडणे भाणभेदो, खद्धे उड्डाह परिहाणी ॥ ६३३१॥ अनुपयुक्तस्य गच्छतः संयमे षट्कायानां विराधना भवेत् । आत्मविराधनायां कण्टकादयः पदयोर्लगेयुः, विषमे वा प्रदेशे आपतनं भवेत् तत्र भाजनभेदः । 'खद्धे च' प्रचुरे 30 भक्त-पाने भूमौ छर्दिते उड्डाहो भवेत्-अहो ! बहुभक्षका अमी इति । भाजने च भिन्ने
१°णा-ऽसमअसभाषणादि कां० ॥ २ कः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः । तस्यै कां० ॥ ३ °पितोऽसौ राज्ञा डे० ॥ ४ पुनरमी दो का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org