________________
१६७० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिमन्थप्रकृते सूत्रम् १९ तित्वमुच्यते, नर्तकीत्वमित्यर्थः । एतेन "नट्टिया व" ति पदं व्याख्यातं प्रतिपत्तव्यम् ॥ ६३२३ ॥ गतः शरीरकौकुचिकः । अथ भाषाकौकुचिकमाह
छलिय मुहवाइत्ते, जंपति य तहा जहा परो हसति ।
कुणइ य रुए बहुविधे, वग्घाडिय-देसभासाए ॥ ६३२४ ।। 5 यः सेण्टितं मुखवादित्रं वा करोति, तथा वा वचनं जल्पति यथा परो हसति, बहुविधानि वा मयूर-हंस-कोकिलादीनां जीवानां रुतानि करोति, वग्याडिकाः-उद्धट्टककारिणीः देशभाषा वा-मालव-महाराष्ट्रादिदेशप्रसिद्धास्तादृशीर्भाषा भाषते याभिः सर्वेषामपि हास्यमुपजायते, एष भाषाकौकुचिकः ॥ ६३२४ ॥ अस्य दोषानाह
मच्छिगमाइपवेसो, असंपुडं चेव सेहिदिद्वंतो।
दंडिय घतणो हासण, तेइच्छिय तत्तफालेणं ॥ ६३२५ ॥ __ तदीयभाषणदोषेण ये मुखं विस्फाल्य हसन्ति तेषां मुखे मक्षिकादयः प्राणिनः प्रविशेयुः, प्रविष्टाश्च ते यत् परितापनादिकं प्रामुवन्ति तन्निष्पन्नं तस्य प्रायश्चिचम् । हसतश्च मुखमसम्पुटमेव भवेद्, न भूयो मिलेदित्यर्थः । तथा चात्र श्रेष्ठिदृष्टान्त:___ कश्चिद् 'दण्डिकः' राजा, तस्य "घयणो" भण्डः । तेन राजसभायामीदृशं किमपि 'हासनं' 1Bहास्यकारि वचनं भणितं येन प्रभूतजनस्य हास्यमायातम् । तत्र श्रेष्ठिनो महता शब्देन हसतो मुखं तथैव स्थितं न सम्पुटीभवति । वास्तव्यवैद्यानां दर्शितो नैकेनापि प्रगुणीकर्तुं पारितः । नवरं प्राघुणकेनैकेन चैकित्सिकेन लोहमयः फालः तप्तः-अमिवर्णः कृत्वा मुखे दौकितः, ततस्तदीयेन भयेन श्रेष्ठिनो मुखं सम्पुटं जातम् ॥ ६३२५ ॥ ___ अथ प्रागुद्दिष्टं मृत-सुप्तदृष्टान्तद्वयमाह20
गोयर साहू हसणं, गवक्खें दटुं निवं भणति देवी ।
हसति मयगो कहं सो, त्ति एस एमेव सुत्तो वी ॥ ६३२६ ॥ एगो साहू गोचरचरियाए हिंडमाणो हसंतो देवीए गवक्खोवविट्ठाए दिट्ठो । राया भणिओ-सामि ! पेच्छ अच्छेरयं, मुयं माणुसं हसंतं दीसइ । राया संभंतो-कहं कहिं वा। सा साहुं दरिसेइ । राया भणइ-कहं मउ ? ति । देवी भणइ-इह भवे शरीर26 संस्कारादिसकलसांसारिकसुखवर्जितत्वाद् मृत इव मृतः ॥
एवं सुत्तदिद्रुतो वि भाणियव्वो ॥
अक्षरगमनिका त्वियम्-गोचरे साधोः पर्यटतः 'हसनं' हास्यं दृष्ट्वा देवी नृपं भणतिमृतको हसति । नृपः पृच्छति-कुत्र स मृतको हसति ? । देवी हस्तसंज्ञया दर्शयति-एष
इति । एवमेव' मृतवत् सुप्तोऽपि मन्तव्यः, उभयोरपि निश्चेष्टतया विशेषाभावात् ॥ ६३२६ ॥ 30 गतः कौकुचिकः । सम्प्रति मौखरिकमाह
मुहरिस्स गोण्णणामं, आवहति अरिं मुहेण भासंतो । .. लहुगो य होति मासो, आणादि विराहणा दुविहा ॥ ६३२७ ॥ १°हा जणो हस° ताभा० ॥ २ स-काकोलूकादी का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org