________________
15
भाष्यगाथाः ६३१५-२३] षष्ठ उद्देशः ।
१६६९ जंते व णट्टिया वा, विराहण मइल्लए सुत्ते ॥ ६३२० ॥ 'स्थाने' स्थानविषयः शरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः । तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णं भ्रमणं करोति । देहः-शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसति स भाषाकौकुचिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु, आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् [ स्थान-शरीर ]कौकुचिक उच्यते । यस्तु महता शब्देन हसति तस्य मक्षिकादीनां मुखप्रवेशेन संयमविराधना शूलादिरोगप्रकोपेनात्मविराधना । “मएल्लए सुत्ति" ति मृतदृष्टान्तः सुप्तदृष्टान्तश्वात्र हास्यदोषदर्शनाय भवति, स. चोत्तरत्र दर्शयिष्यते ॥ ६३१९ ॥ ६३२०॥ अथैतदेव नियुक्तिगाथाद्वयं बिभावयिषुः स्थानकौकुचिकं व्याचष्टे
10 आवडइ खंभकुड्डे, अभिक्खणं भमति जंतए चेव ।
कमफंदण आउंटण, ण यावि बद्धासणो ठाणे ॥ ६३२१ ॥ इहोपविष्ट ऊर्द्धस्थितो वा स्तम्भे कुड्ये वा य आपतति, यन्त्रकमिव वाऽमीक्ष्णं भ्रमति, क्रमस्य-पादस्य स्पन्दनमाकुञ्चनं वा करोति, न च नैव 'बद्धासनः' निश्चलासनस्तिष्ठति, एष स्थानकौत्कुचिकः ॥ ६३२१ ।। अत्रामी दोषाः
संचारोवतिगादी, संजमें आयाऽहि-विचुगादीया ।
दुब्बद्ध कुहिय मूले, चडफडते य दोसा तु ॥ ६३२२ ॥ सञ्चारकाः-कुड्यादौ सञ्चरणशीला ये उवइकादयः-उद्देहिका-मन्थुकीटिकाप्रभृतयो जीवास्तेषां या विराधना सा संयमविषया मन्तव्या । आत्मविराधनायामहि-वृश्चिकादयस्तत्रोपद्रवकारिणो भवेयुः, यदि वा यत्र स्तम्भादौ स आपतति तद् दुर्बद्धं मूले वा कुथितं भवेत् तत- 20 स्तस्य पतने परितापनादिका ग्लानारोपणा, “चडप्फडंते य" ति अभीक्ष्णमितस्ततो भ्राम्यतः सन्धिर्विसन्धीभवेदित्यादयो बहवो दोषाः । एवमुत्तरत्रापि दोषा मन्तव्याः ।। ६३२२ ।। अथ शरीरकौकुचिकमाह
कर-गोफण-धणु-पादादिएहिँ उच्छुभति पत्थरादीए ।
भमुगा-दाढिग-थण-पुतविकंपणं णट्टवाइत्तं ॥ ६३२३ ।। कर-गोफणा-धनुः पादादिभिः प्रस्तरादीन् य उत्-प्राबल्येन क्षिपति स शरीरकौकुचिकः । भू-दाढिका-स्तन-पुतानां विकम्पनं-विविधम्-अनेकप्रकारैः कम्पनं यत् करोति तद् नृत्यपा
१ भवति । तत्र स्थानकौकुचिकस्य यन्त्रवद् भ्राम्यतः शरीरकौकुचिकस्य तु नर्तकीवद् नृत्यतः षट्कायविराधना।भाषाकौकुचिकस्य पुनर्महता शब्देन प्रसारितवदनस्य हसतो मक्षिकादीनां मुखप्रवेशेन संयमविराधना परिस्फुटैव । तथा भ्राम्यतो नृत्यतो हसतश्च शूलादिरोगप्रकोपेनाऽऽत्मविराधना द्रष्टव्या। "मएलए का० ॥ २ °षुर्भाष्यकारः स्थानकौकुचिकं तावदाह-आव' का० ॥ ३ ताटी• डे• विनाऽन्यत्र-का-मधुकीटिका मो• ले । का-कुन्थु-कीटिका भा० का० ॥ ४ °नायां चिन्त्यमानायामहि कां०॥ ५नुत्तपा ॥
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org