________________
भाष्यगाथाः ६३११-१४] षष्ठ उद्देशः ।
अनेन सम्बन्धेनायातस्यास्य व्याख्या-'षड्' इति षट्सङ्ख्याः 'कल्पस्य' कल्पाध्ययनोक्तसाधुसमाचारस्य परिः-सर्वतो मनन्ति-विलोडयन्तीति परिमन्थवः, उणादित्वादुप्रत्ययः, पाठान्तरेण परिमन्था वा, व्याघातका इत्यर्थः, 'प्रज्ञप्ताः' तीर्थकरादिभिः प्रणीताः । तद्यथा-"कुकुइए" ति "कुचण अवस्पन्दने" इति वचनात् कुत्सितम्-अप्रत्युपेक्षितत्वादिना कुचितम्-अवस्पन्दितं यस्य स कुकुचितः, स एव प्रज्ञादिदर्शनात् खार्थिकाण्प्रत्यये । कौकुचितः; कुकुचा वा-अवस्पन्दितं प्रयोजनमस्येति कौकुचिकः; सः 'संयमस्य' पृथिव्यादिरक्षणरूपस्य 'परिमन्थुः' व्याघातकारी १ । “मोहरिए" त्ति मुखं-प्रभूतभाषणातिशायि वदनमस्यास्तीति मुखरः, स एव मौखरिकः-बहुभाषी, विनयादेराकृतिगणवाद् इकण्प्रत्ययः; यद्वा मुखेनारिमावहतीति व्युत्पत्त्या निपातनाद् मौखरिकः; 'सत्यवचनस्य' मृषावादविरतेः परिमन्थुः, मौखर्ये सति मृषावादसम्भवात् २। चक्षुषा लोल:-चञ्चलो यद्वा चक्षुः लोलं 10 यस्य स चक्षुलोलः, स स्तूप-देवकुलादीनि विलोकमानो व्रजति, ईर्या-गमनं तस्याः पन्था ईर्यापथस्तत्र भवा या समितिः सा ऐर्यापथिकी-ईयर्यासमितिस्तस्याः परिमन्थुर्भवति ३ । 'तिन्तिणिकः' आहाराद्यभावे खेदाद् यत्किञ्चनाभिधायी, स एषणा-उद्गमादिदोषविमुक्तभक्तपानादिगवेषणारूपा तत्प्रधानो यो गोचरः-गोरिव मध्यस्थतया भिक्षार्थ चरणं स एषणागोचरस्तस्य परिमन्थुः; सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४ । इच्छा-अभिलाषः 15 स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, यथा निद्रानिद्रा महानिद्रेति; स च इच्छालोभः-अधिकोपकरणादिमेलनलक्षणः 'मुक्तिमार्गस्य' मुक्तिः-निष्परिग्रहत्वम् अलोभतेत्यर्थः सैव निवृतिपुरस्य मार्ग इव मार्गस्तस्य परिमन्थुः ५। "भिज्ज" ति लोभस्तेन यद् निदानकरणं-देवेन्द्र-चक्रवादिविभूतिप्रार्थनं तद् 'मोक्षमार्गस्य' सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानचतुर्थभेदरूपत्वात् । भिजाग्रहणेन यदलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं 20 तन्न मोक्षमार्गस्य परिमन्थुरित्यावेदितं प्रतिपत्तव्यम् ६ । ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवद् दुष्टम् , अतस्तद्विषयं निदानं मोक्षस्य परिमन्थुन भविष्यति, नैवम् , यत आह"सव्वत्थे"त्यादि 'सर्वत्र' तीर्थकरत्व-चरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ 'अनिदानता' अप्रार्थनमेव 'भगवता' समप्रैश्वर्यादिमता श्रीमन्महावीरस्वामिना "पसत्थ" ति 'प्रशंसिता' श्लाधिता । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
__ पलिमंथे णिक्खेवो, णामा एगढिया इमे पंच ।
पलिमंथो वक्खेवो, वक्खोड विणास विग्यो य ॥ ६३१४ ॥ 'परिमन्थे' परिमन्थपदस्य निक्षेपश्चतुर्धा कर्तव्यः । तस्य चामूनि पञ्च एकाथिकानि भवन्ति–परिमन्थो व्याक्षेपो व्याखोटो विनाशो विघ्नश्चेति ॥ ६३१४ ॥
स च परिमन्थश्चतुर्दा-नाम-स्थापना-द्रव्य-भावभेदात् । तत्र नाम-स्थापने सुगमे । 30 द्रव्य-भावपरिमन्थौ प्रतिपादयति--
करणे अधिकरणम्मि य, कारग कम्मे य दव्यपलिमंथो । १ अथ भाष्यकारः परिमन्थुपदं विषमत्वाद् विवरीपुराह इत्यवतरणं का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org