________________
१६६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिमन्थप्रकृते सूत्रम् १९
परि मन्थ प्रकृतम् सूत्रम्
छ कप्पस्स पलिमंथू पण्णत्ता, तं जहा-कोकुइए संजमस्स पलिमंथू १ मोहरिए सच्चवयणस्स पलि. मंथू २ चक्खुलोलए इरियावहियाए पलिमंथू ३ तितिणिए एसणागोयरस्स पलिमंथू ४ इच्छालोभए मुत्तिमग्गस्स पलिमंथू ५ भिजानियाणकरणे मोक्खमग्गरस पलिमंथू ६। सव्वत्थ भगवता
अनियाणया पसत्था १९॥ 10 अस्य सूत्रस्य कः सम्बन्धः ? इत्याह
दप्पेण जो उ दिक्खेति एरिसे एरिसेसु वा विहरे।
तत्थ धुवो पलिमंथो, को सो कतिभेद संबंधो ॥ ६३११ ॥ 'दर्पण' कारणमन्तरेण य आचार्यः 'ईदृशान्' परायत्तान् दीक्षयति, यो वा 'ईदृशेषु' अनार्येषु देशेषु दर्पतो विहरति, तत्र 'ध्रुवः' निश्चितोऽवश्यम्भावी परिमन्थः, अतः कोऽसौ 16 कतिभेदो वा परिमन्थः ? इत्याशङ्कानिरासाय प्रस्तुतसूत्रारम्भः । एष सम्बन्धः ॥ ६३११ ॥
अहवा सब्बो एसो, कप्पो जो वण्णिओ पलंबादी।
तस्स उ विवक्खभूता, पलिमंथा ते उ वजेजा ।। ६३१२ ॥ 'अथवा' इति सम्बन्धस्य प्रकारान्तरद्योतने । य एष षट्खपि उद्देशकेषु प्रलम्बादिकः 'कल्पः' समाचार उक्तः 'तस्य' कल्पस्य विपक्षभूताः 'परिमन्थाः' कौकुच्य-मौखर्यादयो 20 भवन्ति, अतस्तान् वर्जयेदिति ज्ञापनार्थमधिकृतसूत्रारम्भः ॥ ६३१२ ॥ अथवा वज्रमध्योऽयमुद्देशकः, तथाहि
आइम्मि दोनि छक्का, अंतम्मि य छक्कगा दुवे हुंति ।
सो एस वइरमज्झो, उद्देसो होति कप्पस्स ॥ ६३१३ ॥ अस्मिन् षष्ठोद्देशके आदौ 'द्वे षट्के' भाषाषट्क-प्रस्तारषट्कलक्षणे भवतः अन्तेऽपि च द्वे 25 षट्के' परिमन्थषट्क-कल्पस्थितिषट्करूपे भवतः, ततः स एषः' कल्पोद्देशको वज्रमध्यो भवति, वज्रवदादावन्ते च द्वयोः षट्कयोः सद्भावाद् विस्तीर्णः मध्ये तु सङ्क्षिप्त इत्यर्थः । तत्राद्य षट्कद्वयं प्राग् अभिहितमेव, अथान्त्यं षट्कद्वयमभिधीयते। तत्रापि प्रथमं तावदिदम् ॥ ६३१३ ॥
१ कः प्रलम्बपरिहारादिरूपः 'कल्पः' का० ॥ २ द्वयोर्द्वयोर्वक्तव्यपदार्थषट्कयोः सद्भावाद् विस्तीर्णः मध्ये तु प्रतिसूत्रमेकैकस्य पदार्थस्य वक्तव्यतया सम्भवात् सक्रिप्त को०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org