________________
भाष्यगाथाः ६३०४ - १० ]
पष्ठ उद्देशः ।
हाणी जावेगाहं, तावतियं विजथंभणता ॥ ६३०८ ॥
5
योऽनया कृतो धर्मस्तं सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यम् — नैतावद् दद्मः, यतो नैतावत् समं तुलति । स प्राह - एकेन संवत्सरेण हीनं प्रयच्छतु; तदपि प्रतिषेधनीयः । ततो ब्रूयात् — द्वाभ्यां संवत्सराभ्यां हीनं दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् 'एकेन दिवसेन कृतोऽनया धर्मस्तं प्रयच्छत' ततो वक्तव्यम् - नाभ्यधिकं दद्मः । किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत् प्रयच्छामः । एवमुक्ते यदि तोलना ढौकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति । धर्मतोलनं च धर्माधिकरणिक नीतिशास्त्रप्रसिद्धमिति ततोऽवसात - व्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम् - एषा वणिन्यायेन शुद्धा ॥ ६३०८ ॥
10
स. प्राह – कः पुनर्वणिश्यायो येनैषा शुद्धा क्रियते ? साधवो ब्रुवते - वत्थाणाभरणाणि य, सव्वं छड्डेउ एगवत्थेणं ।
पोतम्मि विवण्णम्मि, वाणितधम्मे हवति सुद्धो ॥ ६३०९ ॥
यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र 'पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नाना - 15 विधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य 'एकवस्त्रेण' एकेनैव परिधानवाससा उत्तीर्णः 'वणिग्ध' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमा - त्मीयं च सारं सर्वं परित्यज्य निष्क्रान्ता संसारसमुद्रादुत्तीर्णा इति वणिग्धर्मेण शुद्धा, न धनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानी - मेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निर्ऋणो वाणिज्यमिति ॥ ६३०९ ॥ सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह
20
Jain Education International
१६६५
तम्हा अपरायत्ते, दिक्खेज अणारिए य वज्रेञ्जा ।
अद्धा अणाभोगा, विदेस असिवादिसू दो वी ॥। ६३१० ॥
यस्मात् पयत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायतान् दीक्षयेत् अनार्यांश्च देशान् बोधिक-स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह - " अद्धाण" ति अध्वानं प्रतिपन्नस्य 25 ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदि वाऽनाभोगतः प्रवाजयेत्, विदेशस्था वा स्वरूपमजानाना दीक्षयेयुः । अशिवादिषु पुनः कारणेषु “दो वि" ति 'द्वे अपि' परायत्त दीक्षणा-नार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति ? - अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रह निमित्तं दीक्षयेत्, अनार्यानपि च देशान् विहरेदिति ॥ ६३१० ॥ ॥ क्षिप्तचित्तादिप्रकृतं समाप्तम् ॥
For Private & Personal Use Only
30
www.jainelibrary.org