________________
१६६४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ क्षिप्तप्रकृते सूत्रम् १८ प्रतिबोधनाय कथनीयम् ॥ ६३०३ ॥ “आहरणमाई" इत्यत्रादिशब्दव्याख्यानार्थमाह
सरभेद वण्णभेदं, अंतद्धाणं विरेयणं वा वि ।
वरधणुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ॥ ६३०४ ॥ गुटिकाप्रयोगतस्तस्याः खरभेदं वर्णभेदं वा कुर्यात् । यद्वा अन्तर्द्धानं नामान्तरप्रेषणेन वा व्यवधानम् । विरेचनं वा ग्लानतोपदर्शनाय कारयितव्या येन 'कृच्छ्रेणैषा जीवति' इति ज्ञात्वा विसर्जयति । यदि वा वरधनुरिव गुटिकाप्रयोगतः पुष्यभूतिराचार्य इव वा सूक्ष्मध्यानवशतो निश्चला निरुच्छ्वासा तथा स्याद् यथा मृतेति ज्ञात्वा परित्यज्यते । विद्या-मन्त्र-प्रयोगा वा तस्य प्रयोक्तव्या येन तैरभियोजितो मुत्कलयति । एतेषां प्रयोगाणामभावे राजा निमित्तेन धर्मकथया वाऽऽवय॑ते, ततस्तस्य प्रभावेण स प्रेर्यते ॥ ६३०४ ॥ 10 अस्याऽपि प्रकारस्याभावे को विधिः ? इत्याह
पासंडे व सहाए, गिण्हति तुझं पि एरिसं अस्थि ।
होहामो य सहाया, तुब्भ वि जो वा गणो बलितो ॥ ६३०५॥ पाषण्डान् वा सहायान् गृह्णाति । अथ ते सहाया न भवन्ति तत इदं तान् प्रति वक्तव्यम्-युष्माकमपीदृशं प्रयोजनं भवेद् भविष्यति तदा युष्माकमपि वयं सहाया भविष्यामः । 15 एवं तान् सहायान् कृत्वा तद्बलतः स प्रेरणीयः । यदि वा यो मल्ल-सारस्वतादिको गणो बलीयान् तं सहायं परिगृह्णीयात् ॥ ६३०५ ॥
एएसिं असतीए, संता व जता ण होंति उ सहाया।
ठवणा दूराभोगण, लिंगेण व एसिउं देति ॥ ६३०६॥ 'एतेषां' पाषण्डानां गणानां वा 'असति' अभावे यदि वा सन्तोऽपि ते सहाया न भवन्ति 20 तदा "ठवण" त्ति निष्कामता यद् द्रव्यं स्थापितं तेन सा मोचयितव्या । यदि वा 'दूराभोग
नेन प्रागुक्तप्रकारेणैव अथवा यद् यत्र लिङ्गमर्चितं तेन धनम् 'एषयित्वा' उत्पाद्य ददति तस्मै वरवृषभाः ॥ ६३०६ ॥ गतमापन्नाद्वारम् । अथ ऋणार्तादिद्वाराण्याह
एमेव अणत्ताए, तवतुलणा णवरि तत्थ णाणत्तं ।।
बोहिय-तेणेहि हिते, ठवणादि गवेसणे जाव ॥ ६३०७ ॥ 25 'एवमेव' अनेनैव दासत्वापन्नागतेन प्रकारेण 'ऋणार्ताया अपि' प्रभूतं ऋणं धारयन्त्या
अन्यदेशे दीक्षिताया मोक्षणे यतना द्रष्टव्या । नवरम् -अत्र धनदानचिन्तायां नानात्वम् । किं तत् ? इत्याह-तपस्तुलना कर्तव्या । तथा बोधिकाः स्तेनाश्च-प्रागुक्तखरूपास्तैर्हताया आर्यिकाया गवेषणं नियमेन कर्तव्यम् । तत्र च कर्तव्येऽनुशासनादिकं तदेव मन्तव्यं यावद् अर्थजातस्य स्थापना तया आदिशब्दाद् निधानस्य दूराभोगनादिप्रयोगेणापि सा मोचयितव्या । 30 अथ ऋणार्तायां या तपस्तुलनोक्ता सा भाव्यते-स द्रव्यं मार्गयन् वक्तव्यः-साधवस्तपोधना अहिरण्य-सुवर्णाः, लोकेऽपि यद् यस्य भाण्डं भवति स तत् तस्मै उत्तमर्णाय ददाति, अस्माकं च पार्श्वे धर्मस्तस्मात् त्वमपि धर्मं गृहाण ॥ ६३०७ ॥ एवमुक्ते स प्राह
जो णातें कतो धम्मो, तं देउ ण एत्तियं समं तुलइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org