________________
16
भाष्यगाथाः ६२९६-६३०३] षष्ठ उद्देशः ।
१६६३ पुव्वुप्पण्ण णिहाणे, कारणजाते गहण सुद्धो ॥ ६३०० ॥ यत्र 'संज्ञी' सिद्धपुत्रः श्रावको वा वर्तते तत्र गत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च कर्तव्या । ततो यत् तस्य पूर्वोत्पन्नं प्रकटं निधानं तन्मध्यादसौ सिद्धपुत्रादिः प्रज्ञापितः सन् तस्य 'अर्थजातस्य' द्रव्यार्थिनः साधोः कियतोऽपि भागान् दद्यात् । अस्य प्रकारस्याभावे यद् निधानं दूरमवगाढं वर्तते तदपि तेन सिद्धपुत्रादिना उत्खन्य दीयमानमधिकृते कारणजाते। गृहानोऽपि शुद्धः, भगवदाज्ञया वर्तनात् ॥६३००॥ गतमवमद्वारम् । इदानीमापन्नाद्वारमाह
थो पि धरेमाणी, कत्थइ दासत्तमेइ अदलंती।
परदेसे वि य लब्भति, वाणियधम्मे ममेस ती॥ ६३०१॥ स्तोकमपि ऋणं शेषं धारयन्ती क्वचिद्देशे काऽपि स्त्री तद् ऋणमददती कालक्रमेण ऋणवृद्धया दासत्वम् 'एति' प्रतिपद्यते । तस्या एवं दासत्वमापन्नायाः खदेशे दीक्षा न दातव्या । 10 अथ कदाचित् परदेशे गता सती अज्ञातस्वरूपा अशिवादिकारणतो वा दीक्षिता भवति तत्र वणिजा परदेशे वाणिज्याथ गतेन दृष्टा भवेत् तत्रायं किल न्यायः-परदेशेऽपि वणिज आत्मीयं लभ्यं लभन्ते । तत एवं वणिग्धर्मे व्यवस्थिते सति स एवं ब्रूयात्-ममैषा दासी इति न मुञ्चाम्यमुमिति ॥ ६३०१ ॥ तत्र यत् कर्तव्यं तत्प्रतिपादनार्थ द्वारगाथामाह
नाहं विदेसयाऽऽहरणमादि विजा य मंत जोए य।
निमित्ते य राय धम्मे, पासंड गणे धणे चेव ॥ ६३०२॥ या तव दासत्वमापन्ना वर्तते न साऽहं किन्तु अहमन्यस्मिन् विदेशे जाता, त्वं तु सदृक्षतया विप्रलब्धोऽसि । अथ सा प्रभूतजनविदिता वर्तते तत एवं न वक्तव्यं किन्तु स्थापत्यापुत्राद्याहरणं कथनीयम् , यद्यपि कदाचित् तच्छ्रवणतः प्रतिबुद्धो मुत्कलयति । आदिशब्दाद् गुटिकाप्रयोगतः खरभेदादि कर्तव्यमिति परिग्रहः । एतेषां प्रयोगाणामभावे विद्या मन्त्रो योगो 20 वा ते प्रयोक्तव्या यैः परिगृहीतः सन् मुत्कलयति । तेषामप्यभावे 'निमित्वेन' अतीता-ऽनागतविषयेण राजा उपलक्षणमेतद् अन्यो वा नगरप्रधान आवर्जनीयो येन तत्प्रभावात् स प्रेर्यते । धर्मो वा कथनीयो राजादीनां येन ते आवृत्ताः सन्तस्तं प्रेरयन्ति । एतस्यापि प्रयोगस्याभावे पाषण्डान् सहायान् कुर्यात् । यद्वा यः 'गणः' सारस्वतादिको बलवांस्तं सहायं कुर्यात् । तदभावे दूराऽऽभोगादिना प्रकारेण धनमुत्पाद्य तेन मोचयेत् । एष द्वारगाथास पार्थः ॥६३०२॥ 25 साम्प्रतमेनामेव गाथां विवरीषुराह
सारिक्खएण जंपसि, जाया अण्णत्थ ते वि आमं ति ।
बहुजणविण्णायम्मि, थावच्चसुतादिआहरणं ॥ ६३०३ ॥ यदि बहुजनविदिता सा न भवति, यथा-इयं तद्देशजाता इति; तत एवं ब्रूयात्अहमन्यत्र विदेशे जाता, त्वं तु सादृश्येण विप्रलब्ध एवमसमञ्जसं जल्पसि । एवमुक्ते 30 तेऽपि तत्रत्याः 'आमम्' एवमेतद् यथेयं वदतीति साक्षिणो जायन्ते । अथ तद्देशजाततया सा बहुजनविज्ञाता ततस्तस्यां बहुजनविज्ञातायां पूर्वोक्तं न वक्तव्यं किन्तु स्थापत्यापुत्राद्याहरणं १°समासार्थः डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org