________________
१६६२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [क्षिप्त प्रकृते सूत्रम् १८ किमपि प्रयच्छन्ति तदा खयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः, व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यद्वा स एव राजकुले व्यवहारेणाकृष्यते, तत्र च गत्वा वक्तव्यम् , यथा-इयमृषिकन्या व्रतं जिघृक्षुः केनापि कपटेन धृताऽनेन वर्तते, यूयं
च धर्मव्यापारनिषण्णाः, ततो यथा इयं धर्ममाचरति यथा चामीषामृषीणां समाधिरुपजायते 5 तथा यतध्वमिति ॥ ६२९५ ॥ ततः
नीयल्लएहि तेण व, सद्धिं ववहार कातु मोदणता।
जं अंचितं व लिंगं, तेण गवेसित्तु मोदेइ ॥ ६२९६ ॥ एवं निजकैस्तेन वा सार्द्व व्यवहारं कृत्वा तस्या मोचना कर्तव्या । अस्यापि प्रकारस्याभावे यद् यत्र लिङ्गमर्चितं तत् परिगृहाति । ततः 'तेन' अर्चितलिङ्गेन तल्लिङ्गधारिणां मध्ये ये 10 महान्तस्तत्पार्धाद् गवेषयित्वा तां मोचयन्ति ॥ ६२९६ ॥ अथ "दूराऽऽभोगे"त्यादिव्याख्यानार्थमाह
पुट्ठा व अपुट्ठा वा, चुतसामिणिहिं कहिंति ओहादी ।
घेत्तूण जावदहूँ, पुणरवि सारक्खणा जतणा ॥ ६२९७ ॥ यदि वा 'अवध्यादयः' अवधिज्ञानिनः, आदिशब्दाद् विशिष्टश्रुतज्ञानिपरिग्रहः, पृष्टा वा 15 अपृष्टा वा तथाविधं तस्य प्रयोजनं ज्ञात्वा 'च्युतखामिनिधिम्' उच्छिन्नखामिकं निधि कथ
यन्ति, तदानीं तेषां तत्कथनस्योचितत्वात् । ततः 'यावदर्थ' यावता प्रयोजनं तावद् गृहीत्वा पुनरपि तस्य निधेः संरक्षणं कर्तव्यम् । प्रत्यागच्छता च यतना विधेया, सा चाग्रे खयमेव वक्ष्यते ॥ ६२९७ ॥
___ सोऊण अट्ठजायं, अटुं पडिजग्गती उ आयरिओ। 20
संघाडगं च देती, पडिजग्गति णं गिलाणं पि ॥ ६२९८॥ निधिग्रहणाय मार्गे गच्छन्तं तम् 'अर्थजातं' साधुं श्रुत्वा साम्भोगिकोऽसाम्भोगिको वाऽऽचायोऽथ प्रतिजागर्ति' उत्पादयति । यदि पुनः तस्य द्वितीयसङ्घाटको न विद्यते ततः सङ्घाटकमपि ददाति । अथ कथमपि स ग्लानो जायते ततस्तं ग्लानमपि सन्तं प्रतिजागर्ति न तूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः ॥६२९८॥ यदुक्तमनन्तरं "यतना प्रत्यागच्छता कर्तव्या" तामाह25 ___ काउं णिसीहियं अट्ठजातमावेदणं गुरूहत्थे ।
दाऊण पडिक्कमते, मा पेहंता मिया पासे ॥ ६२९९ ॥ यत्रान्यगणे स प्राघूर्णिक आयाति तत्र नैषेधिकीं कृत्वा 'नमः क्षमाश्रमणेभ्यः' इत्यादि कृत्वा च मध्ये प्रविशति, प्रविश्य च यद् अर्थजातं तद् गुरुभ्य आवेदयति, आवेद्य च
तदर्थजातं गुरुहस्ते दत्त्वा प्रतिक्रामति । कस्मान्न स्वपार्श्व एव स्थापयति ? इति चेद् अत 30 आह-मा 'प्रेक्षमाणाः' निरीक्षमाणा मृगा इव मृगा अगीतार्थाः क्षुल्लकादयः पश्येयुः, गुरुहस्ते च स्थितं न निरीक्षन्ते, अस्मद्गुरूणां समर्पितमिति विरूपसङ्कल्पाप्रवृत्तेः ॥ ६२९९ ।। सम्प्रति "जयणा य जा जत्थे"ति तद्व्याख्यानार्थमाह
सण्णी व सावतो वा, केवतितो दिज अट्ठजायस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org