________________
भाप्यगाथाः ६२८९-९५]
पष्ठ उद्देशः ।
१६६१
गतः । ततस्तस्य कालगमनानन्तरं 'अवमे' दुर्भिक्षे जाते सति तदीयैः पुत्रैरनाद्रियमाणा सा "दारिका ततो गृहात् 'स्फिटिता' परिभ्रष्टा सती परम्परकेण दासत्वमापन्ना । तस्य च पितुर्य - थाविहारक्रमं विहरतस्तस्यामेव मथुरायामागमनम् । तेन च तत् सर्वं ज्ञातम् ॥ ६२९२ ॥ सम्प्रति तन्मोचने विधिमाह-
अणुसासण कह ठवणं, भेसण ववहार लिंग जं जत्थ । दूessभोग गवेसण, पंथे जयणा य जा जत्थ ।। ६२९३ ॥ पूर्वमनुशासनं तस्य कर्तव्यम् । ततः कथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम् । एवमप्यतिष्ठति यद् निष्क्रामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम् । तस्याभावे निजकानां तस्य वा ‘भेषणं' भापनमुत्पादनीयम् । यदि वा राजकुले गत्वा व्यवहारः कार्यः । एवमप्यतिष्ठति यद् यत्र लिङ्गं पूज्यं तत्र तत् परिगृह्य सा मोचनीया । तस्यापि प्रयोगस्याभावे 10 दूरेण - उच्छिन्नखामिकतया दूरदेशव्यवधानेन वा यद् निधानं तस्याभोगः कर्तव्यः । तदनन्तरं तस्य ‘गवेषणं' साक्षान्निरीक्षणं करणीयम् । गवेषणाय च गमने 'पथि' मार्गे यतना यथा ओघनिर्युक्तौ उक्ता तथा कर्त्तव्या । या च यत्र यतना साऽपि तत्र विधेया यथासूत्रमिति द्वारगाथासङ्क्षेपार्थः ॥ ६२९३ ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुशासन-कथनद्वारे प्राहनिच्छिण्णा तुज्झ घरे, इसिकण्णा मुंच होहिती धम्मो | सेहो विचित्तं, तेण व अण्णेण वा णिहितं ॥ ६२९४ ॥
एषा ऋषिकन्या तव गृहेऽवमादिकं समस्तमपि निस्तीर्णा अधुना व्रतग्रहणार्थमुपतिष्ठते अतो मुञ्चैनाम्, तव भूयान् धर्मो भविष्यति । एतावता गतमनुशासनद्वारम् । तदनन्तरं कथनमिति स्थापत्यापुत्रकथा कथनीया- - यथा स स्थापत्या पुत्रो व्रतं जिघृक्षुर्वासुदेवेन महता निष्क्रमणमहिम्ना निष्क्राम्य पार्श्वस्थितेन व्रतग्रहणं कारितः एवं युष्माभिरपि कर्तव्यम् ॥ 20
अथ स्थापितद्वारम्–“सेहोवट्ट" इत्यादि । शैक्षः कश्चिदुपस्थितः तस्य यद् 'विचित्रं' बहुविधमर्थजातं क्वापि स्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्ष उपस्थितः तस्य हस्ते यद् द्रव्यमवतिष्ठते तद् गृहीत्वा तस्मै दीयते । अथवा 'तेनैव' पित्रा 'अन्येन वा' साधुना निष्क्रामता यद् द्रव्यजातं कचित् पूर्वं 'निहितं' स्थापितमस्ति तद् आनीय तस्मै दीयते ॥ ६२९४ ॥ तदभावे को विधि: ? इत्याह
5
Jain Education International
15
25
नीलगाण तस्स व भेसण ता राउले सतं वा वि ।
अविरिका मो अम्हे, कहं व लज्जा ण तुझं ति ॥ ६२९५ ॥
'निजकानाम् ' आत्मीयानां खजनानां भेषणं कर्तव्यम्, यथा --- वयं 'अविरिक्ताः' अविभक्तरक्या वर्तामहे ततो मोचयत मदीयां दुहितरम्, कथं वा युष्माकं न लज्जा अभूत् यद् एवं मदीया पुत्रिका दासत्वमापन्नाऽद्यापि धृता वर्तते । अथवा येन गृहीता वर्तते तस्य भेषणं 30 विधेयम्, यथा— - यदि मोचयसि तर्हि मोचय, अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भेषणेऽपि कृते यदि न मुञ्चति यदि वा ते खजना न १ 'चनावि' भा० ॥ २ तुम्हं ति ताभा० ॥ ३ यदि मुञ्चसि ततो मुञ्च, अन्य कां० ॥
For Private & Personal Use Only
www.jainelibrary.org