________________
१६६०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [क्षिप्तप्रकृते सूत्रम् १८ 'जीवितकृच्छ्रां' 'कृच्छ्रेणेयं जीवति' इतिबुद्धया विसर्जयति ॥ ६२८८ ॥ _अत्रैव द्वितीयमुदाहरणमाह---
अपरिग्गहियागणियाऽविसजिया सामिणा विणिक्खंता ।
बहुगं मे उव उत्तं, जति दिजति तो विसजेमि ॥ ६२८९ ॥ 5 न विद्यते परिग्रहः कस्यापि यस्याः साऽपरिग्रहा, सा चासौ गणिका चापरिग्रहगणिका, सा
येन सममुषितवती स देशान्तरं गतः, ततस्तेन अविसर्जिता सती 'विनिष्क्रान्ता' प्रव्रजिता । अन्यदा च स खामी समागतो भणति-बहुकं 'मे' मदीयं द्रव्यमनया 'उपयुक्तम्' उपयोगं नीतम् , भुक्तमित्यर्थः, तद यदि दीयते ततो विसृजामि ॥ ६२८९ ॥ ___ एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाह-- 10
सरभेद वण्णभेदं, अंतद्धाणं विरेयणं वा वि ।
वरधणुग पुंस्सभूती, गुलिया सुहुमे य झाणम्मि ॥ ६२९० ॥ गुटिकाप्रयोगतस्तस्याः खरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति यथा स तां न प्रत्यभिजानाति । यदि वा ग्रामान्तरादिप्रेषणेन 'अन्तर्धानं' व्यवधानं क्रियते । अथवा तथाविधौषधप्रयोगतो विरेचनं कार्यते येन सा ग्लानेव लक्ष्यते, ततः 'एषा कृच्छ्रेण जीवति' इति ज्ञात्वा स तां 15मुञ्चति । अथवा शक्तौ सत्यां यथा ब्रह्मदत्तहिण्ड्यां धनुपुत्रेण वरधनुना मृतकवेषः कृतस्तथा निश्चला निरुच्छ्वासा सूक्ष्ममुच्छ्सनं तिष्ठति येन मृतेति ज्ञात्वा तेन विसृज्यते । यदि वा या पुष्यभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशात् निश्चलः निरुच्छासः स्थितः ( आवश्यके प्रतिक्रमणाध्ययने योगसङ्ग्रहेषु नियु० गा० १३१७ हारि० टीका पत्र ७२२)
तथा तयाऽपि सूक्ष्मध्यानकुशलया सत्या तथा स्थातव्यं यथा स मृतेत्यवगम्य मुञ्चति ॥ ६२९०॥ 20 एतेषां प्रयोगाणामभावे
अणुसिट्ठिमणुवरंतं, गति णं मित्त-णातगादीहिं।।
एवं पि अठायंते, करेंति सुत्तम्मि जं वुत्तं ॥ ६२९१ ॥ __ अनुशिष्टिस्तस्य दीयते । तया यदि नोपरतस्ततस्तस्य पुरुषस्य यानि मित्राणि ये च ज्ञात. यस्तैः आदिशब्दाद् अन्यैश्च तथाविधैः स्थविरास्तं गमयन्ति' बोधयन्ति येन स तस्या मुत्क25 लनं करोति । एवमप्यतिष्ठति तस्मिन् यदुक्तं सूत्रे तत् कुर्वन्ति । किमुक्तं भवति !-अर्थजातमपि दत्त्वा सा तस्मात् पुरुषाद् मोचयितव्या । एतत् तस्याः सूत्रोक्तमवलम्बनं मन्तव्यम् ॥ ६२९१ ॥ गतं सेवकभार्याद्वारम् । अथावमद्वारमाह
सकुडुंबो मधुराए, णिक्खिविऊणं गयम्मि कालगतो।
ओमे फिडित परंपर, आवण्णा तस्स आगमणं ॥ ६२९२ ॥ 30 मथुरायां नगर्यां कोऽपि वणिक् सकुटुम्बोऽपि प्रविजिषुरव्यक्तां दारिकां मित्रस्य गृहे निक्षिप्य ततः प्रव्रज्यां प्रतिपद्यान्यत्र गतः । गते च तस्मिन् स मित्रभूतः पुरुषः काल
१ पुस्समित्ते, गु तामा० । चूर्णिकृता एष एव पाठ आहतः । आवश्यक नियुक्ति-चूर्णिवृत्त्यादावप्ययमेव पाठ आदतोऽस्ति ॥ २ °था आवश्यके योगसङ्ग्रहोक्तः पुण्य कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org