________________
१६५९
10
भाष्यगाथाः ६२८१-८८] षष्ठ उद्देशः। अस्य सूत्रस्य सम्बन्धमाह
वुत्तं हि उत्तमहे, पडियरणट्ठा व दुक्खरे दिक्खा ।
इंती व तस्समीवं, जति हीरति अट्ठजायमतो ॥ ६२८५ ॥ उक्तं 'हि' यस्मात् पूर्व पञ्चकल्पे-'उत्तमार्थे' उत्तमार्थ-प्राक्सूत्राभिहितं प्रतिपत्तुकामस्य "दुक्खरे" ति यक्षरस्य व्यक्षरिकाया वा दीक्षा दातव्या, यदि वा 'प्रतिचरणाय' 'एषा दीक्षिता मां ग्लानां सती प्रतिचरिष्यति' इतिनिमित्तं यक्षरिका दीक्षिता भवति, सा च पश्चाद् दायकैः प्रतिगृह्येत तस्या वोत्तमार्थप्रतिपन्नाया मूलं 'आयान्ती' आगच्छन्ती बोधिकादिना स्तेनेन यदि हियते अतस्तां प्रति अर्थजातसूत्रावकाशः ॥ ६२८५ ॥ ___ अनेन सबन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् ॥ साम्प्रतमर्थजातशब्दव्युत्पत्ति. प्रतिपादनार्थमाह
अटेण जीऍ कजं, संजातं एस अट्ठजाता तु ।
तं पुण संजमभावा, चालिजंती समवलंबे ॥ ६२८६ ॥ 'अर्थेन' अर्थितया सञ्जातं कार्य यया यद्वा अर्थेन-द्रव्येण जातम्-उत्पन्नं कार्य यस्याः सा अर्थजाता, गमकत्वादेवमपि समासः । उपलक्षणमेतत् , तेनैवमपि व्युत्पत्तिः कर्तव्याअर्थः-प्रयोजनं जातोऽस्या इत्यर्थजाता । कथं पुनरस्या अवलम्बनं क्रियते ? इत्याह -'तां 15 पुनः' प्रथमव्युत्पत्तिसूचितां संयमभावात् चाल्यमानां द्वितीय-तृतीयव्युत्पत्तिपक्षे तु द्रव्याभावेन प्रयोजनानिष्पत्त्या वा सीदन्तीं 'समवलम्बेत' साहाय्यकरणेन सम्यग् धारयेत् , उपलक्षणत्वाद् गृह्णीयादपि ॥ ६२८६ ॥ अथ नियुक्तिकारो येषु स्थानेषु संयमस्थिताया अप्यर्थजातमुत्पद्यते तानि दर्शयितुमाह
सेवगभजा ओमे, आवण्ण अणत्त बोहिये तेणे ।
एतेहि अट्ठजातं, उप्पजति संजमठिताए ॥ ६२८७ ॥ 'सेवकभार्यायां' सेवकभार्याविषयम् , एवम् 'अवमे' दुर्भिक्षे, "आवण्णे"ति दासत्वप्राप्तायाम् , "अणत्ते"ति ऋणार्तायां परं विदेशगमनादुत्तमर्णेनानाप्तायाम् , तथा 'बोधिकाः' अनार्या म्लेच्छाः 'स्तेनाः' आर्यजनपदजाता अपि शरीरापहारिणस्तैरपहरणे च, एतैः कारणैरर्थजातं संयमस्थिताया अपि उत्पद्यते । एष नियुक्तिगाथासङ्केपार्थः ।। ६२८७ ॥ 25 साम्प्रतमेनामेव विवरीषुः सेवकभार्याद्वारमाह
पियविप्पयोगदुहिया, णिक्खंता सो य आगतो पच्छा ।
अगिलाणिं च गिलाणिं, जीवियकिच्छं विसजेति ॥ ६२८८ ॥ कोऽपि राजादीनां सेवकः, तेन राजसेवाव्यग्रेणात्मीया भार्या परिष्ठापिता, ततः सा प्रियविप्रयोगदुःखिता 'निष्क्रान्ता' तथारूपाणां स्थविराणामन्तिके प्रवजिता, स च पुरुषः पश्चात् 30 तयाऽर्थी जातस्ततस्तस्याः सकाशमागतः पुनरपि तां मार्गयति ततः को विधिः ? इत्याहअग्लानामपि तां 'ग्लानां' ग्लानवेषां कुर्वन्ति, विरेचनादीनि च तस्याः क्रियन्ते, ततोऽसौ १ जीत क° ताभा० ॥ २ °स्याः ग्रहणमवलम्बनं वा क्रि° का० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org