SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्त० प्रकृते सूत्रम् १८ पच्छित्तं इत्तिरिओ, होइ तवो वण्णिओ य जो एस । आवकथितो पुण तवो, होति परिण्णा अणसणं तु ॥ ६२८१ ॥ 'प्रायश्चित्तं' प्रायश्चित्तरूपं यद् एतत् तपोऽनन्तरसूत्रे वर्णितम् एतत् तप इत्वरं भवति, यत् पुनः परिज्ञारूपं तपोऽनशनं तद् यावत्कथिकम्, तत इत्वरतपः प्रतिपादनानन्तरं यावत्क - B थिकतपः प्रतिपादनार्थमधिकृतं सूत्रम् ॥ ६२८१ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या - प्राग्वत् । नवरम् — भक्तं च पानं च भक्त पाने ते प्रत्याख्याते यया सा तथोक्ता । कान्तस्य परनिपातः सुखादिदर्शनात् ॥ अत्र भाष्यम्अटुं वा हेउं वा, समणीणं विरहिते कहेमाणो । मुच्छाऍ विपडिताए, कप्पति ग्रहणं परिण्णाए । ६२८२ ॥ 'श्रमणीनाम्' अन्यासां साध्वीनां 'विरहिते' अशिवादिभिः कारणैरभावे एकाकिन्या आर्यिकाया भक्त-पानप्रत्याख्याताया अर्थं वा हेतुं वा कथयतो निर्ग्रन्थस्य यदि सा मूर्च्छया विपतेत्, ततो मूर्च्छया विपतितायास्तस्याः “परिण्णाए" त्ति 'परिज्ञायाम्' अनशने सति करुपते ग्रहणम्, उपलक्षणत्वाद् अवलम्बनं वा कर्तुम् || ६२८२ ॥ इदमेव व्याचष्टेगीतsari असती, सव्वाऽसतीए व कारण परिण्णा । पाणग भत्त समाही, कहणा आलोत धीरवणं ॥ ६२८३ ॥ 10 15 १६५८ गीतार्थानामार्थिकाणाम् 'असति' अभावे यदि वाऽशिवादिकारणतः सर्वासामपि साध्वीनामभावे एकाकिन्या जातया 'परिज्ञा' भक्तप्रत्याख्यानं कृतम्, ततस्तस्याः कृतभक्त - पानप्रत्याख्यानायाः सीदन्त्या योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीयः । 'कथनी' धर्मकथना यथाशक्ति खशरीरानाबाधया कर्त्तव्या । तथा 'आलोकम्' आलोचनां सा 20 दापयितव्या । यदि कथमपि चिरजीवनेन भयमुत्पद्यते, यथा-- नाद्यापि म्रियते, किमपि भविष्यति इति न जानीम इति; तस्या धीरापना कर्तव्या ॥ ६२८३ ॥ जति वाण णिव्वहेजा, असमाही वा वि तम्मि गच्छमि । करणिजं अण्णत्थ वि, ववहारो पच्छ सुद्धा वा ॥ ६२८४ ॥ " यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्त - पानप्रत्याख्याना सा न निर्वहेत्, न याव25 त्कथिकमनशनं प्रतिपालयितुं क्षमा इति यावत् असमाधिर्वा तस्मिन् गच्छे तस्या वर्तते ततोऽन्यत्र नीत्वा यद् उचितं तत् तस्याः करणीयमिति । अथ पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्याः 'व्यवहारः' प्रायश्चित्तं दातव्यः । अथ खगच्छा समाधिमात्रेणान्यत्र गता ततः सा मिथ्या दुष्कृत प्रदानमात्रेण शुद्धेति ॥ ६२८४ ॥ सूत्रम् - 30 अजयम्म निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नो अतिक्कम १८ ॥ १ 'ना' यथाशक्ति स्वशरीरानावाधया धर्मकथा तस्याः पुरतः कथनीया । तथा कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy