________________
भाष्यगाथाः ६२७४-८०]
षष्ठ उद्देशः ।
१६५७
अस्य व्याख्या प्राग्वत् ॥ अत्र भाष्यम्
उप्पण्णे अहिगरणे, ओसमणं दुविहऽतिकम दिस्स ।
अणुसासण भेस निरंभणा य जो तीऍ पडिपक्खो ॥ ६२७८ ॥ संयत्या गृहस्थेन सममधिकरणे उत्पन्ने द्विविधमतिक्रमं दृष्ट्वा तस्याधिकरणस्य व्यवशमनं कर्तव्यम् । किमुक्तं भवति ?–स गृहस्थोऽनुपशान्तः सन् तस्याः संयत्याः संयमभेदं जीवित-b भेदं चेति द्विविधमतिक्रमं कुर्यात् तत उपशमयितव्यमधिकरणम् । कथम् ? इत्याह-यः 'तस्याः' संयत्याः 'प्रतिपक्षः' गृहस्थस्तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यम् , तथाऽप्यतिष्ठति 'भीषणं' भापनं कर्तव्यम् , तथाऽप्यभिभवतो 'निरुम्भणं' यस्य या लब्धिस्तेन तया निवारणं कर्तव्यम् ॥ ६२७८ ।। सूत्रम्
10 .. सपायच्छित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २
नातिकमइ १६ ॥ अस्य सम्बन्धमाह
अहिगरणम्मि कयम्मि, खामिय समुपद्विताए पच्छित्तं ।
तप्पढमताए भएणं, होति किलंता व वहमाणी ॥ ६२७९ ॥ 1b . अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितायाः प्रायश्चित्तं दीयते, ततः साधिकरणसूत्रानन्तरं प्रायश्चित्तसूत्रमुक्तम् ॥
अस्य व्याख्या-प्राग्वत् ॥
सा सप्रायश्चित्ता 'तत्प्रथमतायां' प्रथमतः प्रायश्चित्ते दीयमाने 'भयेन' 'कथमहमेतत्.. प्रायश्चित्तं वक्ष्यामि ?' इत्येवंरूपेण विषण्णा भवेत् , यदि वा प्रायश्चित्तं वहन्ती तपसा क्लान्ता 20 भवेत् ॥ ६२७९ ॥ तत्रेयं यतना
पायच्छित्ते दिण्णे, भीताएँ विसजणं किलंताए ।
अणुसहि वहंतीए, भएण खित्ताइ तेइच्छं ॥ ६२८० ॥ प्रायश्चित्ते दत्ते यदि बिभेति ततस्तस्या भीतायाः क्लान्तायाश्च विसर्जनम् , प्रायश्चित्तं मुत्कलं क्रियत इत्यर्थः । अथ वहन्ती क्लाम्यति ततस्तस्या वहन्त्या अनुशिष्टिीयते, यथा--मा भैषीः, 25 बहु गतम् , स्तोकं तिष्ठति, यदि वा वयं साहाय्यं करिष्याम इति । अथैवमनुशिष्यमाणाऽपि भयेन क्षिप्तचित्ता भवति ततस्तस्याः 'चैकित्स्य' चिकित्सायाः कर्म कर्तव्यम् ॥ ६२८० ॥ सूत्रम्
भत्त-पाणपडियाइक्खियं निग्गंथिं निग्गंथे गिण्हमाणे
वा २ नातिकमइ १७॥ . अस्य सूत्रस्य सम्बन्धमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org