________________
10.
भाष्यगाथाः ६२६७-७३] षष्ठ उद्देशः।
१६५५ विद्यया वा मन्त्रेण वा चूर्णेन वा 'योजिता' सम्बन्धिता सती काचिदनात्मवशा भवेत् तत्र 'अनुशासना' इति येन रूपलुब्धेन विद्यादि प्रयोजितं तस्यानुशिष्टिः क्रियते, यथा-एषा तपस्विनी महासती, न वर्तते तव तां प्रति ईदृशं कर्तुम् , एवंकरणे हि प्रभूततरपापोपचयसम्भव इत्यादि । अथैवमनुशिष्टोऽपि न निवर्तते तर्हि तस्य तां प्रतिविद्यया विद्वेषणमुत्पाद्यते । अथ नास्ति तादृशी प्रतिविद्या ततः “लिहावण" त्ति तस्य सागारिकं विद्याप्रयोगतस्तस्याः पुरत . आलेखाप्यते येन सा तद् दृष्ट्वा 'तस्य सागारिकमिदमिति बीभत्सम्' इति जानाना विरागमुपपद्यते । “खमए महुरा" इति मथुरायां श्रमणीप्रभृतीनां बोधिकस्तेनकृत उपसर्गोऽभवत् तं क्षपको निवारितवान् , एषोऽपि मानुष उपसर्गः । तैरश्चमाह-"तिरिक्खाइ" ति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणीनामुपसर्गान् कुर्वन्ति ते यथाशक्ति निराकर्तव्याः ॥६२७० ॥ साम्प्रतमेनामेव गाथां विवरीषुराह
विजादऽभिओगो पुण, एसो माणुस्सओ य दिव्यो य ।
तं पुर्ण जाणंति कह, जति णामं गेहए तस्स ।। ६२७१ ॥ विद्यादिभिः 'अभियोगः' अभियुज्यमानता । एष पुनः द्विविधः' द्विप्रकारः, तद्यथामानुषिको देवश्च । तत्र मनुष्येण कृतो मानुषिकः । देवस्यायं तेन कृतत्वाद् दैवः । तत्र देवकृतो मनुष्यकृतो वा विद्यादिभिरभियोग एष एव यत् तस्मिन् दूरस्थितेऽपि तत्प्रभावात् सा 16 तथारूपा उन्मत्ता जायते । अथ 'तं' विद्याधभियोगं देवं मानुषिकं वा कथं जानन्ति ? । सूरिराह-तयोदेव-मानुषयोर्मध्ये यस्य नाम साऽभियोजिता गृह्णाति तत्कृतः स विद्याद्यमियोगो ज्ञेयः ॥ ६२७१ ॥ साम्प्रतं "अणुसासणा लिहावण" इत्येतद् व्याख्यानयति
अणुसासियम्मि अठिए, विदेसं देंति तह वि य अठंते ।
जक्खीए कोवीणं, तीसे पुरओ लिहावेंति ॥ ६२७२ ॥ येन पुरुषेण विद्यादि अभियोजितं तस्यानुशासना क्रियते । अनुशासितेऽप्यस्थिते विद्याप्रयोगतस्तां विवक्षितां साध्वी प्रति तस्य विद्याधभियोक्तुर्विद्वेषं 'ददति' उत्पादयन्ति वृषभाः। तथापि च तस्मिन् अतिष्ठति 'यक्ष्या' शुन्या तदीयं कौपीनं तस्याः पुरतो विद्याप्रयोगतो लेहयन्ति येन सा तद् दृष्ट्वा तस्येदं सागारिकमिति जानाना विरज्यते ॥ ६२७२ ॥ सम्प्रति प्रति विद्याप्रयोगे हँढादरताख्यापनार्थमाह
25 विसस्स विसमेवेह, ओसहं अग्गिमग्गिणो ।
मंतस्स पडिमंतो उ, दुजणस्स विवजणं ॥ ६२७३ ॥ विषस्यौषधं विषमेव, अन्यथा विषानिवृत्तेः । एवमनेर्भूतादिप्रयुक्तस्यौषधमग्निः । मन्त्रस्य प्रतिमन्त्रः । दुर्जनस्यौषधं 'विवर्जनं' ग्राम-नगरपरित्यागेन परित्यागः । ततो विद्यादभियोगे साधु-साध्वीरक्षणाथ प्रतिविद्यादि प्रयोक्तव्यमिति ॥ ६२७३ ॥
30 जइ पुण होज गिलाणी, णिरुन्भमाणी उ तो से तेइच्छं ।। १ एतदनन्तरं ग्रन्थाग्रम्-९००० कां० ॥ २त् स तथारूप उन्मत्तो जाय’ कां० विना ॥ ३ दृढतरता डे० मो० ले.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org