________________
१६५४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्त० प्रकृते सूत्रम् १४
अन्यच्च -- यदि नटः खरूपतो दुरूपो भवति ततः स पूर्वं प्रज्ञाप्यते, प्रज्ञापितश्च सन् 'तस्याः' उन्मादप्राप्तायाः पुरतः 'उन्मण्ड्यते' यत् तस्य मण्डनं तत् सर्वमपनीयते ततो विरूपरूपदर्शनतो विरागो भवति । अथासौ नटः खभावत एव रूपवान् - अतिशायिना उद्भटरूपेण युक्तस्ततस्तस्य भक्तं मदनफल मिश्रादिकं तद् दीयते येन भुक्तेन तस्याः पुरतः 'छर्दयति' उद्वमति, 5 उद्वमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सा तं दृष्ट्वा विरज्यत इति ॥ ६२६६ ॥ गुज्झंगम्मि उ विडं, पजावेऊण खरगमादीणं ।
ताणे विरागो, तीसे तु हवेज दहूणं ।। ६२६७ ॥
यदि पुनः कस्यापि गुह्याङ्गविषय उन्मादो भवति न रूप- लावण्याद्यपेक्षः ततः 'खरकादीनां ' द्वयक्षरकप्रभृतीनां 'विकटं' मद्यं पाययित्वा प्रसुप्तीकृतानां पूतिमद्योद्गालखरण्टित सर्वशरीराणामत 10 एव मक्षिकाभिणिभिणायमानानां " तद्दायणे" त्ति तस्य - गुह्याङ्गस्य मद्योगालादिना बीभत्सी भूतस्य दर्शना क्रियते । तच्च दृष्ट्वा तस्या आर्यिकाया विरागो भवेत् ततः प्रगुणीभवति ॥ ६२६७ ॥ सूत्रम् —
15
उवसग्गपत्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कम १४ ॥
अस्य सम्बन्धमाह -
मोहेण पित्ततो वा, आतासंवेतिओ समक्खाओ ।
एसो उ उवसग्गो, अयं तु अण्णो परसमुत्थो ।। ६२६८ ॥
'मोहेन' मोहनीयोदयेनेत्यर्थः 'पित्ततो वा' पित्तोदयेन य उन्मत्तः सः 'आत्मसंवेदिकः ' आत्मनैवात्मनो दुःखोत्पादकः समाख्यातः, यच्चात्मनैवात्मदुः खोत्पादनमेष आत्मसंवेदनीय 20 उपसर्गः । ततः पूर्वमात्मसंवेदनीय उपसर्ग उक्तः । तत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यत इति ॥ ६२६८ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या - सा च प्राग्वत् ॥ तत्रोपसर्गप्रतिपादनार्थमाहतिविहे य उवसग्गे, दिव्वे माणुस्सए तिरिक्खे य ।
दिव्वे य पुव्वभणिए, माणुस्से आभिओग्गे य ।। ६२६९ ॥ 25 त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथा - — दैवो मानुष्यकस्तैरश्चश्च । तत्र 'दैवः' देवकृतः ‘पूर्वम्' अनन्तरसूत्रस्याधस्ताद् भणितः, 'मानुष्यः पुनः' मनुष्यकृतः 'आभियोग्य ः ' विद्याद्यभियोगजनितस्तावद् भण्यते ॥ ६२६९ ॥
विजाए मंतेण व, चुण्णेण व जोतिया अणप्पवसा ।
अणुसासणा लिहावण, खमए मधुरा तिरिक्खाती ।। ६२७० ।।
Jain Education International
१ उन्मत्ततारूप उपसर्गः सः 'आत्मसंवेदिकः' आत्मसंवेदनीयनामा समाख्यातः । इदमुक्तं भवति - इह किल देव मानुष्यक तैरश्चा-ऽऽत्मसंवेदनीयभेदात् चतुर्विधा उप सर्गा भवन्ति । ततः पूर्वमात्म कां० ॥
For Private & Personal Use Only
www.jainelibrary.org