________________
15
१६५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्तप्रकृते सूत्रम् ११ काऊण होति दित्ता, वादकरणे तत्थ जा ओमा ॥ ६२५२ ॥ यद् उत्कृष्टं कलमशाल्यादिकं भक्तं क्षीरं कम्बलरत्नादिकं वा तया लब्धं तस्य द्रव्यस्य जुगुप्सनं क्रियते, यथा-नेदमपि शोभनम् , अमुको वाऽस्य दोष इति । यदि वा 'दृष्टान्तः' अन्येनापीदृशमानीतमिति प्रदर्शनं क्रियते । तस्य च दृष्टान्तस्य भावना 'असदृशेन' शतभागेन । सहस्रभागेन वा या तस्याः सकाशाद् हीना तया कर्तव्या । या तु वादं कृत्वा दीप्ताऽभूत् तस्याः प्रगुणीकरणाय पूर्वं चरिकादिका प्रचण्डा परवादिनी प्रज्ञाप्यते, ततः सा तस्या वादाभिमानिन्याः पुरतस्ततोऽप्यवमतरा या साध्वी तया वादकरणे पराजयं प्राप्यते, एवमपभ्राजिता सती प्रगुणीभवति ॥ ६२५२ ॥
. . दुल्लभदव्वे देसे, पडिसेहितगं अलद्धपुव्वं वा । 10
आहारोवहि वसही, अक्खतजोणी व धूया वि ॥ ६२५३ ॥ यत्र देशे क्षीर-घृतादिकं द्रव्यं दुर्लभं तत्र तद् अन्यासामार्यिकाणां प्रतिषिद्धं' 'न प्रयच्छामः' इति दायकेन निषिद्धं 'अलब्धपूर्वं वा' कयाऽपि पूर्वं तत्र न लब्धं तत्र तद् लब्ध्वा दीप्तचित्ता भवतीति वाक्यशेषः, यद्वा सामान्येनोत्कृष्ट आहार उत्कृष्ट उपधिरुत्कृष्टा वा वसतिर्लब्धा अक्षतयोनिका वा 'दुहिता' काचिदीश्वरपुत्रिका लब्धा तत्रेयं यतना ॥ ६२५३ ॥
पगयम्मि पण्णवेत्ता, विजाति विसोधि कम्ममादी वा।
__ खुड्डीय बहुविहे आणियम्मि ओभावणा पउणा ॥ ६२५४ ।। • 'प्रकृते' विशिष्टतरे भक्त-क्षीर-कम्बल-रत्नादिकेऽवमतरायाः सम्पादयितव्ये तथाविधं श्रावकमितरं वा प्रज्ञाप्य, तदभावे कस्यापि महर्द्धिकस्य विद्यां आदिशब्दाद् मन्त्र-चूर्णादीन्
यावत् 'कर्मादि' कार्मणमपि प्रयुज्य, आदिशब्दः खगतानेकभेदसूचकः, ततः क्षुल्लिकतराया 20 गुणतः शतभाग-सहस्रभागादिना हीनाया विशिष्टमाहारादिकं सम्पादयन्ति । ततो विद्यादिप्रयोगजनितपापविशुद्धये 'विशोधिः' प्रायश्चित्तं ग्राह्यम् । एवं क्षुल्लिकया 'बहुविधे' क्षीरादिके आनीते सति तस्या अपभ्राजना क्रियते ततः प्रगुणा भवति ॥ ६२५४ ॥
अद्दिट्ठसड कहणं, आउट्टा अभिणवो य पासादो।
कयमित्ते य विवाहे, सिद्धाइसुता कतितवेणं ॥ ६२५५॥ 25 यस्तया श्राद्धो न दृष्टः-अदृष्टपूर्वस्तस्यादृष्टस्य श्राद्धस्य 'कथनं' प्रज्ञापना, उपलक्षणमेतद्,
अन्यस्य महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणम् , ततस्ते आवृत्ताः सन्तस्तस्या लब्ध्यमिमानिन्याः समीपमागत्य ब्रुवते-वयमेतया क्षुल्लिकया प्रज्ञापितास्ततः 'अभिनव एव' कृतमात्र एव युष्माकमेष प्रासादो दत्त इति । तथा कैतवेन 'सिद्धादिसुताः' सिद्धपुत्रादिदुहितरः कृतमात्र एव विवाहे उत्पादनीयाः । इयमत्र भावना-सिद्धपुत्रादीनां प्रज्ञापनां कृत्वा तहुहितरः 30 कृतमात्रविवाहा एव व्रतार्थ तत्समक्षमुपस्थापनीयाः येन तस्या अपभ्राजना जायते । ततः
प्रगुणीभूतायां तस्यां यदि तासां न तात्त्विकी व्रतश्रद्धा तदा शकुनादिवैगुण्यमुद्भाव्य मुच्यन्ते ॥ ६२५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org