________________
भाष्यगाथाः ६२४६-५१] पष्ठ उद्देशः ।
एयाणि य अन्नाणि य, पलवियवं सो अणिच्छियव्याई ।
कुसलेण अमचेणं, खरगेणं सो उवाएणं ॥ ६२४८ ॥ 'एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् ॥६२४८॥ किम् ? इत्याह-.
विद्दवितं केणं तिव, तुम्भेहिं पायतालणा खरए ।
कत्थ त्ति मारिओ सो, दुट्ट त्ति य दरिसिते भोगा ॥ ६२४९ ॥ 'विद्रावितं' विनाशितं समस्तं स्तम्भ-कुड्यादि । राज्ञा पृष्टम्-केनेदं विनाशितम् ? । अमात्यः सम्मुखीभूय सरोषं निष्ठुरं वक्ति-युष्माभिः । ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता । तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च । ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम्-कुत्रामात्यो वर्तते ? । सङ्केतितपुरुषैरुक्तम्-देव ! युष्मत्पादानाम- 10 विनयकारी इति मारितः । ततः 'दुष्टं कृतं मया' इति प्रभूतं विसूरितवान् । स्वस्थीभूते च तस्मिन् सङ्केतितपुरुषैरमात्यस्य दर्शनं कारितम् । ततः सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ ६२४९ ॥ उक्तो लौकिको दीप्तचित्तः । अथ तमेव लोकोत्तरिकमाह
महज्झयण भत्त खीरे, कंवलग पडिग्गहे य फलए य ।
पासाए कप्पट्ठी, वातं काऊण वा दित्ता ॥ ६२५० ॥ 15 'महाध्ययनं' पौण्डरीकादिकं दिवसेन पौरुष्या वा कयाचिद् मेधाविन्या क्षुल्लिकया आगमितम् , अथवा भक्तमुत्कृष्टं लब्ध्वा 'नास्मिन् क्षेत्रे भक्तमीदृशं केनापि लब्धपूर्वम्', यदि वा क्षीरं चतुर्जातकसम्मिश्रमवाप्य 'नैतादृशमुत्कृष्टं क्षीरं केनापि लभ्यते', यदि वा कम्बलरत्नमतीवोत्कृष्टम् अथवा विशिष्टवर्णादिगुणोपेतमपलक्षणहीनं पतद्हं लब्ध्वा, "फलगे य" त्ति यदि वा 'फलकं' चम्पकपट्टकादिकम् अथवा प्रासादे सर्वोत्कृष्टे उपाश्रयत्वेन लब्धे, “कप्पट्ठी"-20 ति ईश्वरदुहितरि रूपवत्यां प्रज्ञादिगुणयुक्तायां लब्धायां प्रमोदते, प्रमोदभरवशाच्च दीप्तचित्ता भवति । एतेन "लाभमदेन वा मत्तः” (गा० ६२४३) इति पदं लोकोत्तरे योजितम् । अधुना "दुर्जयान् शत्रून् जित्वा" (गा. ६२४३) इति पदं योजयति-वादं वा परप्रवादिन्या दुर्जयया सह कृत्वा तां पराजित्यातिहर्षतः 'दीप्ता' दीप्तचित्ता भवति ॥ ६२५० ॥ एतासु दीप्तचित्तासु यतनामाह
25 दिवसेण पोरिसीए, तुमए पढितं इमाऍ अद्धेणं ।
एतीऍ णस्थि गव्यो, दुम्मेहतरीऍ को तुझं ॥ ६२५१ ॥ दिवसेन पौरुष्या वा त्वया यत् पौण्डरीकादिकमध्ययनं पठितं तद् अनया दिवसस्य पौरुष्या वाऽर्द्धन पठितं तथाऽप्येतस्या नास्ति गर्वः, तब पुनर्दुमेधस्तरकायाः को गर्वः !, नैव युक्त इति भावः, एतस्या अपि तव हीनप्रज्ञत्वात् ॥ ६२५१ ॥
30 तद्दव्वस्स दुगुंछण, दिर्सेतो भावणा असरिसेणं । १ दुष्टु कृ कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org