________________
8
जो पेल्लिओ परेणं, हेऊ वसणस्स होइ कायाणं ।
तत्थ न दोर्स इच्छसि, लोगेण समं तहा तं च ॥ ६२३३ ॥
अः परेण प्रेरितः सन् 'कायानां' पृथिव्यादीनां 'व्यसनस्य' सङ्घट्टन - परितापनादिरूपस्य ‘हेतुः' कारणं भवति ‘तत्र' तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ यथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः । कथं पुनर्दोषं नेच्छामि ? इत्यत आह- 'लोकेन समं' लोकेन सह, 10 लोके तथादर्शनत इत्यर्थः । तथाहि – यो यत्रानात्मवशतया प्रवर्तते तं तत्र लोको निर्दोषमभिमन्यते । अत एव परप्रेरिततया कायव्यसनहेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दो - मिच्छसि तथा 'तामपि च' क्षिप्तचित्तां निर्दोषां पश्य तस्या अपि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः ॥ ६२३३ ॥ एतदेव सविशेषं भावयति
पसंतो वि य काए, अपचलो अप्पगं विधारेउं ।
जह पेल्लितो अदोसो, एमेव इमं पि पासामो ॥ ६२३४ ॥
यथा परेण प्रेरित आत्मानं 'विधारयितुं' संस्थापयितुम् 'अप्रत्यलः' असमर्थः सन् पश्यन्नपि 'कायान्' पृथिवीकायिकादीन् विराधयन् अनिकापुत्राचार्य इव 'अदोष:' निर्दोषः ; 'एवमेव ' मैव प्रकारेण परांयत्ततया प्रवृत्तिलक्षणेन ' इमामपि' क्षिप्तचित्तामदोषां पश्यामः ॥ ६२३४ ॥ इह पूर्वं प्रगुणीभूतायास्तस्याः प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्ता अतस्ता20 नेव गुरुकादीन् प्ररूपयति
16
१६४६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्त० प्रकृते सूत्रम् १०
यंत्रनर्तकीसत्कं परायत्ततया चेष्टमानमप्यचेतनम्, 'एकं तु' खाभाविकनर्तकीशरीरं खायत्ततया प्रवृत्तेः 'सचित्तं' सचेतनमिति । पर आह— यथा एष चेतने विशेषो निःसन्दिग्धप्रतिपत्तिविषयो भवति तथा 'भणत' प्रतिपादयत । आचार्यः प्राह -- ततः 'इदं' वक्ष्यमाणं 'निरामय' आकर्णय || ६२३२ ॥ तदेवाह ---
25
30
गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो । लहुओ लहुयतरागो, अहालहूगो य ववहारो ॥ ६२३५ ।। लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो । एतेसिं पच्छित्तं वोच्छामि अहाणुपुत्रीए ।। ६२३६ ॥ गुरुतो य होइ मासो, गुरुगतरागो य होइ चउमासो । अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती ॥ ६२३७ ॥ तीसा य पण्णवीसा, वीसा पन्नरसेव य ।
दस पंच य दिवसाई, लहुसगपक्खम्मि पडिवत्ती ॥ ६२३८ ॥ गुरुगं च अङ्कुमं खलु, गुरुगतरागं च होइ दसमं तु । आहागुरुग दुवालस, गुरुगे पक्खम्मि पडिवत्ती ॥ ६२३९ ॥ छट्ठे च चत्थं वा, आयंबिल एगठाण-पुरिमड्ढा | निव्वियगं दायचं, अहलहुसगगम्मि मुद्धो वा ।। ६२४० ॥ आसां षण्णामपि गाथानां व्याख्या पूर्ववत् ( गा० ६०३९ तः ४४ ) | नवरम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org