________________
15
भाष्यगाथाः ६२३३-४५] षष्ठ उद्देशः। इहागीतार्थप्रत्ययार्थ यथालघुखको व्यवहारः प्रस्थापयितव्यः ॥ ६२३५ ॥ ६२३६ ॥ ॥६२३७ ॥ ६२३८ ॥ ६२३९ ॥ ६२४०॥ सूत्रम्---
दित्तचित्तं निग्गथि निग्गथे गिण्हमाणे वा अवलंब
माणे वा नाइकमइ ११॥ अस्य व्याख्या प्राग्वत् । नवरम्-दीप्तचित्ता-लाभादिमदेन परवशीभूतहृदया ॥ अथ भाष्यकारो विस्तरमभिधित्सुराह
एसेव गमो नियमा, दित्तादीणं पि होइ णायव्यो।
जो होइ दित्तचित्तो, सो पलवति णिच्छियव्वाइं ॥ ६२४१॥ 'एष एव' अनन्तरोक्तक्षिप्तचित्तानिर्ग्रन्थीसूत्रगत एव 'गमः' प्रकारो लौकिक-लोकोत्तरि-10 कभेदादिरूपः 'दीप्तादीनामपि' दीप्तचित्ताप्रभृतीनामपि निम्रन्थीनां नियमाद् वेदितव्यः । यत् पुनर्नानात्वं तद् अभिधातव्यम् । तदेवाधिकृतसूत्रेऽभिधित्सुराह-"जो होइ" इत्यादि, यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बहनीप्सितप्रलपनं तस्य लक्षणम् , क्षिप्तचित्तस्त्वपहृतचित्ततया मौनेनाप्यवतिष्ठत इति परस्परं सूत्रयोर्विशेष इति भावः ॥६२४१॥ अथ कथमेष दीप्तचित्तो भवति ? इति तत्कारणप्रतिपादनार्थमाह
इति एस असम्माणा, खित्ता सम्माणतो भवे दित्ता।
अग्गी व इंधणेणं, दिप्पति चित्तं इमेहिं तु ॥ ६२४२॥ 'इति' अनन्तरसूत्रोक्ता 'एषा' क्षिप्तचित्ता 'असम्मानतः' अपमानतो भवति । 'दीप्ता' दीप्तचित्ता पुनः 'सम्मानतः' विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽमिरिवेन्धनैः 'एभिः' वक्ष्यमाणैर्लाभमदादिभिः ॥ ६२४२ ॥ तानेवाह
लाभमएण व मत्तो, अहवा जेऊण दुजए सत्तू ।
दित्तम्मि सायवाहणों, तमहं वोच्छं समासेण ॥ ६२४३॥ __ लाभमदेन वा मत्तः सन् दीप्तचित्तो भवति, अथवा दुर्जयान् शत्रून् जित्वा, एतस्मिन्नुभयस्मिन्नपि 'दीप्ते' दीप्तचित्ते लौकिको दृष्टान्तः सातवाहनो राजा । 'तमहं' सातवाहनदृष्टान्तं समासेन वक्ष्ये ॥ ६२४३ ॥ यथाप्रतिज्ञातमेव करोति
महुराऽऽणत्ती दंडे, सहसा णिग्गम अपुच्छिउं कयरं । तस्स य तिक्खा आणा, दुहा गता दो वि पाडेउं ॥ ६२४४ ॥ सुतजम्म-महुरपाडण-निहिलंभनिवेदणा जुगव दित्तो।
सयणिज खंभ कुड्डे, कुट्टेइ इमाइँ पलवंतो ॥ ६२४५॥ गोयावरीए णदीए तडे अ पतिद्वाणं नगरं । तत्थ सालवाहणो राया । तस्स खरओ 30 अमच्चो । अन्नया सो सालवाहणो राया दंडनायगमाणवेइ-महुरं घेत्तूणं सिग्घमागच्छ । १ सुतजम्मण महुरापाडणे य जुगवं निवेदिते दित्तो ताभा० ॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org