________________
10
15
भाष्यगाथाः ६२२४-३२] षष्ठ उद्देशः ।
१६४५ द्वेषविकलत्वात् । तस्याश्च राग-द्वेषविकलत्वं न वचनमात्रसिद्धं किन्तु लोकोऽपि 'अत्र' अस्मिन् विषये साक्षी, यथा-एषा सर्व परवशाऽकार्षीदिति । ततो राग-द्वेषाभावान्न कर्मोपचयः, तस्य तदनुगतत्वात् ॥ ६२२७ ॥ तथा चाह
राग-दोसाणुगया, जीवा कम्मस्स बंधा होति ।
रागादिविसेसेण य, बंधविसेसो वि अविगीओ ॥ ६२२८॥ राग-द्वेषाभ्यामनुगताः-सम्बद्धा राग-द्वेषानुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततः 'राग-द्वेषविशेषेण' राग-द्वेषतारतम्येन 'बन्ध विशेषः' कर्मबन्धतर-तमभावः 'अविगीतः' अविप्रतिपन्नः । ततः क्षिप्तचित्ताया राग-द्वेषाभावतः कर्मोपचयाभावः ॥ ६२२८ ॥ अमुमेवार्थ दृष्टान्तेन द्रढयति
कुणमाणा वि य चेट्ठा, परतंता णट्टिया बहुविहातो।
किरियाफलेण जुजति, ण जहा एमेव एतं पि ॥ ६२२९ ॥ यथा 'नर्तकी' यन्त्रनर्तकी काष्ठमयी 'परतन्त्रा' परायत्ता परप्रयोगत इत्यर्थः, 'बहुधा अपि' बहुप्रकारा अपि, तुशब्दोऽपिशब्दार्थः, चेष्टाः कुर्वाणा 'क्रियाफलेन' कर्मणा न युज्यते; 'एवमेव' अनेनैव प्रकारेण एनामपि क्षिप्तचित्तामनेका अपि विरुद्धाः क्रियाः कुर्वाणामकर्मकोपचयां पश्यत ॥ ६२२९ ॥ अथात्र परस्य मतमाशङ्कमान आह
जइ इच्छसि सासेरा, अचेतणा तेण से चओ णत्थि।
जीवपरिग्गहिया पुण, बोंदी असमंजसं समता ॥ ६२३० ॥ यदि त्वमेतद् इच्छसि' अनुमन्यसे, यथा-"सासेरा" इति देशीपदत्वाद् यन्त्रमयी नर्तकी अचेतना तेन कारणेन "से" तस्याः 'चयः' कर्मोपचयो नास्ति, 'बोन्दिः' तनुः पुनः 'जीवपरिगृहीता' जीवेनाधिष्ठिता, जीवपरिगृहीतत्वाचावश्यं तद्विरुद्धचेष्टातः कर्मोपचयसम्भवः,20 ततो या सासेरादृष्टान्तेन समता आपादिता सा 'असमञ्जसम्' अयुज्यमाना, अचेतनसचेतनयोर्दृष्टान्त-दान्तिकयोर्वेषम्यात् ॥ ६२३० ॥ अत्राऽऽचार्यः प्राह
चेयणमचेयणं वा, परतंतत्तेण णणु हु तुल्लाई । [आव.नि.१४६६]
___ण तया विसेसितं एत्थ किंचि भणती सुण विसेसं ॥ ६२३१ ॥ इह वस्तु चेतनं वाऽस्तु अचेतनं वा, यदि परतन्त्रं तदा ननु 'हुः' निश्चितं 'परतन्त्रत्वेन' 25 परायत्ततया यतो द्वे अपि तुल्ये ततो न किञ्चिद् वैषम्यम् । पर आह-न त्वयाऽत्र परकर्मोपचयचिन्तायां 'किञ्चिदपि' मनागपि विशेषितं येन 'जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवति, एकत्र न' इति प्रतिपद्यामहे । अत्राचार्यः 'भणति' ब्रूते-शृणु भण्यमानं विशेषम् ॥ ६२३१ ॥ तमेवाहणणु सो चेव विसेसो, जं एकमचेतणं सचित्तेगं ।
30 जह चेयणे विसेसो, तह भणसु इमं णिसामेह ॥ ६२३२ ॥ ननु ‘स एव' यत्रनर्तकी-खाभाविकनर्तकीदृष्टान्तसूचितो विशेषः-यद 'एकं शरी" १°गा भणिया ताभा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org