________________
15
१६४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्त०प्रकृते सूत्रम् १० यः पूर्व-प्रथमोद्देशके ग्लानसूत्रे उद्दिष्टः-प्रतिपादितो विधिः स एव 'इहापि' क्षिप्तचितासूत्रेऽपि वैयावृत्यं कुर्वतां तथैव भवति ज्ञातव्यः । 'चैकित्स्ये च' चिकित्सायाः कर्मणि च 'कृते' प्रगुणीभूतायां च तस्यां त्रय आदेशाः प्रायश्चित्तविषया भवन्ति । एके ब्रुवते-गुरुको व्यवहारः स्थापयितव्यः । अपरे ब्रुवते-लघुकः । अन्ये व्याचक्षते-लघुखकः । तत्र तृतीय 5 आदेशः प्रमाणम् , व्यवहारसूत्रोक्तत्वात् । अथवा सा 'शुद्धा न प्रायश्चित्तभाक्, परवशतया राग-द्वेषाभावेन प्रतिसेवनात् ॥ ६२२३ ॥ एतदेव बिभावयिषुरिदमाह
चउरो य हुंति भंगा, तेसिं वयणम्मि होति पण्णवणा । [आव.नि.१६१२]
परिसाए मज्झम्मी, पट्टवणा होति पच्छित्ते ॥ ६२२४ ॥ ___ इह चारित्रविषये वृद्धि-हान्यादिगताश्चत्वारो भवन्ति भङ्गास्तेषां प्ररूपणा कर्तव्या । 'नोद10 कवचने च' 'कथं साऽप्रायश्चित्ती ?' इत्येवंरूपे 'प्रज्ञापना' सूरेः प्रतिवचनरूपा भवति । ततः पर्षदो मध्ये अगीतार्थप्रत्ययनिमित्तं 'प्रायश्चित्तस्य' लघुखकरूपस्य 'प्रस्थापना' प्रदानं तस्याः शुद्धाया अपि कर्तव्यमिति ॥ ६२२४ ॥ सम्प्रति चतुरो भङ्गान् कथयन् प्रायश्चित्तदानाभावं भावयति
वड्ढति हायति उभयं, अवट्टियं च चरणं भवे चउहा।
खइयं तहोवसमियं, मिस्समहक्खाय खेत्तं च ॥ ६२२५ ॥ कस्यापि चारित्रं वर्धते, कस्यापि चारित्रं हीयते, कस्यापि चारित्रं हीयते वर्धते च, कस्यापि 'अवस्थितं' न हीयते न च वर्धते, एते चत्वारो भङ्गाश्चारित्रस्य । साम्प्रतममीषामेव चतुर्णा भङ्गानां यथासङ्ख्येन विषयान् प्रदर्शयति-"खइयं" इत्यादि । क्षपकश्रेणिप्रतिपन्नस्य
क्षायिकं चरणं वर्धते । उपशमश्रेणीतः प्रतिपतने औपशमिकं चरणं हानिमुपगच्छति । 20 क्षायोपशमिकं तत्तद्राग-द्वेषोत्कर्षा-ऽपकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं 'क्षिप्तं च' पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तचारित्रं चावस्थितम् , यथाख्यातचारित्रे सर्वथा राग-द्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः खतो राग-द्वेषाभावात् । तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितं अतो नासौ प्रायश्चित्तभागिति ॥ ६२२५॥
पर आह-ननु सा क्षिप्तचित्ताऽऽश्रवद्वारेषु चिरकालं प्रवर्तिता बहुविधं चासमञ्जसतया 25 प्रलपितं लोक-लोकोत्तरविरुद्धं च समाचरितं ततः कथमेषा न प्रायश्चित्तभाक् ? अत्र सूरिराह
कामं आसवदारेसु वट्टियं पलवितं बहुविधं च । लोगविरुद्धा य पदा, लोउत्तरिया य आइण्णा ॥ ६२२६ ॥ न य बंधहेउविगलत्तणेण कम्मस्स उवचयो होति ।
लोगो वि एत्थ सक्खी, जह एस परव्वसा कासी ॥ ६२२७ ॥ 30 'कामम्' इत्यनुमतौ अनुमतमेतद् , यथा-तयाऽऽश्रवद्वारेषु चिरकालं वर्तितं बहुविधं च प्रलपितं लोकविरुद्धानि लोकोत्तरविरुद्धानि च पदानि 'आचीर्णानि' प्रतिसेवितानि ॥६२२६॥
तथापि 'न च' नैव तस्याः क्षिप्तचित्तायाः 'बन्धहेतुविकलत्वेन' बन्धहेतवः-राग-द्वेषादयस्तद्विकलत्वेन कर्मोपचयो भवति, कर्मोपचयस्य राग-द्वेषसमाचरिताद्यधीनत्वात् , तस्याश्च राग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org