SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ९६४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [क्षिप्त प्रकृते सूत्रम् १० साम्प्रतं "थाहार विगिचणा" इत्यादि व्याख्यानयति निद्ध महुरं च भत्तं, करीससेजा य णो जहा वातो। 'देविय धाउक्खोमे, णातुस्सग्गो ततो किरिया ॥ ६२१६ ॥ अद्रि 'वातादिना धातुक्षोभोऽस्याः सञ्जातः' इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरं च तस्यै दातव्यम्, शय्या च करीषमयी कर्तव्या, सा हि सोष्णा भवति, उष्णे च बाल-श्रेष्मापहारः, यथा च वातो न लभ्यते तथा कर्तव्यम् । तथा किमयं 'दैविकः' देवेनभूतादिना कृत उपद्रवः । उत धातुक्षोभः ? इति ज्ञातुं देवताराधनाय 'उत्सर्गः' कायोत्सर्गः क्रियते । तसिंश्च क्रियमाणे यद् आकम्पितया देवतया कथितं तदनुसारेण ततः क्रिया कर्तव्या। यदि दैविक इति कथितं तदा प्राशुकैषणीयेन तस्या उपचारः, शेषसाध्वीनां तपोवृद्धिः, तदुपशमनाय च मन्त्रादिस्सरणमिति । अथ वातादिना धातुक्षोभ इति कथितं तदा स्निग्धमधुराग्रुपचार इति ॥ ६२१६ ॥ सम्प्रति "रक्खंताण य फिडिए"त्यादि व्याख्यानयति अगडे पलाय मग्गण, अण्णगणो वा वि जो ण सारक्खे। गुरुगा जं वा जत्तो, तेसिं च णिवेयणं काउं ॥ ६२१७ ॥ अगडे इति सप्तमी पञ्चम्यर्थे, ततोऽयमर्थः--'अवटात्' कूपाद् , उपलक्षणमेतद् , अप15 बरकाद्वा यदि पलायते कथमपि ततस्तस्याः 'मार्गणम्' अन्वेषणं कर्तव्यम् । तथा ये तत्राऽ. न्यत्र वाऽऽसन्ने दूरे वाऽन्यगणा विद्यन्ते तेषां च निवेदनाकरणम् , निवेदनं कर्तव्यमिति भावः । यथा-अस्मदीया एका साध्वी क्षिप्तचित्ता नष्टा वर्तते । ततस्तैरपि सा गवेषणीया, दृष्टा च सा सङ्ग्रहणीया । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति खगणवर्तिन्या अन्यगणवर्तिन्या वा तदा तेषां प्रायश्चित्तं चत्वारः 'गुरुकाः' गुरुमासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकं यच्च प्राप्स्यति मरणादिकं तन्निमित्तं च तेषां प्रायश्चित्तमिति ॥ ६२१७॥ छम्मासे पडियरित्रं, अणिच्छमाणेसु भुजयरओ वा। कुल-गण-संघसमाए, पुव्वगमेणं णिवेदेति ॥ ६२१८ ॥ पूर्वोक्तप्रकारेण तावत् प्रतिचरणीया यावत् षण्मासा भवन्ति । ततो यदि प्रगुणा जायते तर्हि सुन्दरम् । अथ न प्रगुणीमूता ततः 'भूयस्तरकमपि' पुनस्तरामपि तस्याः प्रतिचरणं 25 विधेयम् । अथ ते साधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्छन्ति, ततस्तेष्वनिच्छत्सु कुल-गण-सङ्घसमवायं कृत्वा 'पूर्वगमेन' ग्लानद्वारोक्तप्रकारेण तस्मै निवेदनीयम् , निवेदिते च ते कुलादयो यथाक्रमं तां प्रतिचरन्ति ॥ ६२१८॥ ___ अथ सा राजादीनां सज्ञातका भवेत् तदा इयं यतना रनो निवेइयम्मि, तेसिं वयणे गवेसणा होति । ओसह वेजा संबंधुवस्सए तीसु वी जयणा ॥ ६२१९ ॥ ___ यदि राज्ञोऽन्येषां वा सा पुयादिका भवेत् ततो राज्ञः, उपलक्षणमेतद् , अन्येषां वा १ दिग्विय तामा० ॥ २ सोष्मा भ' कां० ॥ ३ °दनां कृत्वा स्थातव्यम् । निवेदना नाम-यथा अस्म का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy