________________
भाष्यगाथाः ६२०८-१५] षष्ठ उद्देशः।
१६४१ यदुक्तं "तस्माद् रक्षन्ति यतनया" (गा० ६२१०) इति तत्र यतनामाह
महिड्डिए उट्ठ निवेसणे य, आहार विविंचणा विउस्सग्गो ।
रक्खंताण य फिडिया, अगवेसणे होति चउगुरुगा ॥ ६२१२ ॥ महर्द्धिको नाम-ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम् । तथा “उह निवेसणे य" त्ति मृदुबन्धैस्तथा संयतनीया यथा स्वयमुत्थानं निवेशनं च कर्तुं समर्था भवति । तथा यदि 'वातादिना धातुक्षोभोऽस्या अभूत्' इति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्ध-मधुरादिरूप आहारः प्रदातव्यः । “विगिचण" ति उच्चारादेस्तस्याः परिष्ठापनं कर्तव्यम् । यदि पुनः 'देवताकृत एष उपद्रवः' इति ज्ञायते तदा प्राशुकैषणीयेन क्रिया कार्या। तथा “विउस्सग्गो" इति 'किमयं वातादिना धातुक्षोभः ? उत देवताकृत उपद्रवः ?' इति परिज्ञानाय देवताराधनार्थं कायोत्सर्गः करणीयः । ततस्तयाऽऽकम्पितया कथिते सति तदनुरूपो यत्रो यथोक्तखरूप: 10 करणीयः । एवंरक्षतामपि यदि सा कथञ्चित् स्फिटिता स्यात् ततस्तस्या गवेषणं कर्तव्यम् । अगवेषणे प्रायश्चित्तं चत्वारो गुरुकाः । एष द्वारगाथासङ्केपार्थः ॥ ६२१२ ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतो महर्द्धिकद्वारं विवृणोति
अम्हं एत्थ पिसादी, रक्खंताणं पि फिट्टति कताई ।
सा हु परिरक्खियव्या, महिड्डिगाऽऽरक्खिए कहणा ॥ ६२१३ ॥ 16 'महर्द्धिके' ग्रामस्य नगरस्य वा रक्षाकारिण्यारक्षके कथना कर्तव्या, यथा-'अत्र' एतस्मिन्नुपाश्रयेऽस्माकं रक्षतामप्येषा 'पिशाची' ग्रथिला कदाचित् 'स्फिटति' अपगच्छति सा 'हु:' निश्चितं परिरक्षयितव्या, प्रतिपन्नचारित्रत्वादिति ॥ ६२१३ ॥ व्याख्यातं महर्द्धिकद्वारम् । अधुना "उट्ट निवेसणे य" इति व्याख्यानयतिमिउबंधेहिँ तहा णं, जमेंति जह सा सयं तु उद्वेति ।
30 उव्वरग सत्थरहिते, बाहि कुडंडे असुन्नं च ॥ ६२१४ ॥ मृदुबन्धैस्तथा “णं" इति- तां क्षिप्तचित्तां 'यमयन्ति' बध्नन्ति यथा सा खयमुत्तिष्ठति, तुशब्दस्यानुक्तसमुच्चयार्थत्वाद् निविशते च । तथा सा तस्मिन्नपवरके स्थाप्यते यत्र न किमपि शस्त्रं भवति, यतः सा क्षिप्तचित्ततया युक्तमयुक्तं वाऽजानती शस्त्रं दृष्ट्वा तेनाऽऽत्मानं व्यापादयेत् । तस्य चापवरकस्य द्वार बहिः 'कुडण्डेन' वंशटोक्करादिना बध्यते येन न निर्गत्याप-25 गच्छति । तथा अशून्यं यथा भवति एवं सा वारेण वारेण प्रतिजागर्यते, अन्यथा शून्यमास्मानमुपलभ्य बहुतरं क्षिप्तचित्ता भूयात् ॥ ६२१४ ॥
उव्वरगस्स उ असती, पुन्यकतऽसती य खम्मते अगडो।
तस्सोवरिं च चकं, ण छिवति जह उप्फिडंती वि ॥ ६२१५॥ अपवरकस्य 'असति' अभावे 'पूर्वकृते' पूर्वखाते कूपे निर्जले सा प्रक्षिप्यते। तस्याभावेऽवटो 30 नवः खन्यते, खनित्वा च तत्र प्रक्षिप्यते । प्रक्षिप्य च तस्यावटस्योपरि 'चक्र' रथाङ्ग स्थगनाय तथा दीयते यथा सा 'उत्स्फिटन्त्यपि' उल्ललयन्त्यपि तच्चकं 'न च्छुपति' न स्पृशति ॥६२१५॥ १ मउबंधेहिं तहा संजमंति ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org