________________
१६४० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्त प्रकृते सूत्रम् १० नाया अलातचक्रं पुनः पुनरकस्माद् दयते यावदुभयोरपि भयं जीणं भवति ॥ ६२०७ ॥ अथ वादे पराजयादपमानतः क्षिप्तचित्तीभूताया यतनामाह
एईऍ जिता मि अहं, तं पुण सहसा ण लक्खियं णाए । धिक्कतकतितव लजाविताए पउणायई खुड्डी ॥ ६२०८ ॥ तह वि य अठायमाणे, सारक्खमरक्खणे य चउगुरुगा।
आणाइणो य दोसा, विराहण इमेहिँ ठाणेहिं ॥ ६२०९ ॥ यया चरिकया सा पराजिता सा प्रज्ञाप्यते यथोक्तं प्राक् । ततः साऽऽगत्य वदतिएतयाऽहं वादे जिताऽस्मि, 'तत् पुनः' स्वयंजयनमनया सहसा न लक्षितम् , ततो मे लोकस्य पुरतो जयप्रवादोऽभवत् । एवमुक्ते सा चरिका धिकृतं-धिक्कारस्तत्कैतवेन-तयाजेन 'लज्जाप्यते' 10 लज्जां प्रायते, लज्जां च ग्राहिता सती साऽपसार्यते । ततः क्षिप्ता भण्यते-किमिति खमपमानं गृहीतवती ! वादे हि ननु त्वयैषा पराजिता, तथा च त्वत्समक्षमेव एषा धिक्कारं ग्राहितेति । एवं यतनायां क्रियमाणायां यदि सा क्षुल्लिका प्रगुणीभवति ततः सुन्दरम् ॥ ६२०८ ॥
'तथापि च' एवं यतनायामपि च क्रियमाणायाम् 'अनवतिष्ठति' अनिवर्तमाने क्षिप्तचित्तत्वे संरक्षणं वक्ष्यमाणयतनया कर्तव्यम् । अरक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, 16 विराधना चामीभिः 'स्थानः' प्रकारैर्भवति ॥ ६२०९॥ तान्येवाह
छक्कायाण विराहण, झामण तेणे निवायणे चेव ।
अगड विसमे पडेज व, तम्हा रक्खंति जयणाए ॥ ६२१०॥ तया क्षिप्तचित्तया इतस्ततः परिभ्रमन्त्या षण्णां कायानां-पृथिवीकायिकादीनां विराधना क्रियते । 'ध्यामनं' प्रदीपनकं तद् वा कुर्यात् । यदि वा स्टैन्यम् , अथवा निपातनमात्मनः 20 परस्य वा विधीयते । 'अवटे' कूपेऽथवाऽन्यत्र विषमे पतेत् । तदेवमसंरक्षणे इमे दोषास्तस्माद रक्षन्ति 'यतनया' वक्ष्यमाणया ॥ ६२१० ।। साम्प्रतमेनामेव गाथां व्याचिल्यासुराह
सस्सगिहादीणि दहे, तेणेज व सा सयं व हीरेजा।
मारण पिट्टणमुभए, तद्दोसा जं च सेसाणं ॥ ६२११॥ सस्यं-धान्यं तद्धृतं गृहं सस्यगृहं तदादीनि, आदिशब्दात् शेषगृहा-ऽऽपणादिपरिग्रहः, 25 'दहेत्' क्षिप्तचित्ततयाऽमिप्रदानेन भस्मसात्कुर्यात् , एतेन ध्यामनमिति व्याख्यातम् । यदि वा 'स्तेनयेत्' चोरयेत् , अथवा सा खयं केनापि ह्रियेत, अनेन स्तैन्यं व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात्, किमुक्तं भवति ?-सा क्षिप्तचित्तत्वेन परवशा इव खयमात्मानं मारयेत् पिट्टयेद्वा, यदि वा परं मारयेत् पिट्टयेद्वा, सा वा परेण मार्यते पिठ्यते वेति । "तदोसा
जं च सेसाणं" इति तस्याः-क्षिप्तचित्ताया दोषाद् यच्च 'शेषाणां' साध्वीनां मारणं पिट्टनं वा । 30तथाहि-सा क्षिप्तचित्ता सती यदा व्यापादयति पिट्टयति तदा परे खरूपमजानानाः शेषसाध्वीनामपि घात-प्रहारादिकं कुर्युः तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम् । शेषाणि तु स्थानानि सुगमानीति न व्याख्यातानि ॥ ६२११ ॥ १°ति भाष्यकृता न व्या का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org