________________
भाष्यगाथाः ६२००-७] षष्ठ उद्देशः। भयतः क्षिप्तचित्ता भवति । काऽपि पुनः 'शस्त्राणि' खगादीन्यायुधानि दृष्ट्वा, इयमत्र भावनाकेनापि परिहासेनोद्गीर्णं खड्गं कुन्तं क्षुरिकादिकं वा दृष्ट्वा काऽपि 'हा ! मामेष मारयति' इति सहसा क्षिप्तचित्ता भवति । एवम् 'अनौ' प्रदीपनके लग्ने 'स्तनिते वा' मेघगर्जिते श्रुते विद्युतं वा दृष्ट्वा भयतः क्षिप्तचित्ता भवेत् । एवंविधायां भयेन क्षिप्तचित्तायां को विधिः ? इत्याह'अवमा' तस्या अपि या लघुतरी क्षुल्लिका सा वक्ष्यमाणनीत्या तस्य सिंहादेः प्रतिभेषणांक करोति, तत इतरा भयं मुञ्चतीति । या तु वादे पराजिताऽपमानतः क्षिप्तचित्तीभूता तस्याः प्रगुणीकरणाथै यया चरिकया सा पराजिता तां पूर्व 'प्ररूप्य' प्रज्ञाप्य तदनन्तरं तया खमुखोचरितेन वचसा क्षिप्तचित्ततोत्तारयितव्या ॥ ६२०४ ॥ अथापमानतः क्षिप्तचित्ततां भावयति
अबहीरिया व गुरुणा, पवत्तिणीए व कम्मि वि पमादे।
वातम्मि वि चरियाए, परातियाए इमा जयणा ॥ ६२०५॥ 12 'गुरुणा' आचार्येणावधीरिता, अथवा प्रवर्तिन्या कस्मिंश्चित् प्रमादे वर्तमाना सती गाद शिक्षिता भवेत् ततोऽपमानेन क्षिप्तचित्ता जायेत । यदि वा चरिकया वादे पराजिता इत्यपमानतः क्षिप्तचित्ता स्यात् । तस्यां च भयेन क्षिप्तचित्तायामियं यतना ॥ ६२०५॥
कण्णम्मि एस सीहो, गहितो अह धारिओ य सो हत्थी।
खुड्डुलतरिया तुझं, ते वि य गमिया पुरा पाला ॥ ६२०६॥ 15 इह "पदैकदेशे पदसमुदायोपचारात्" "पाला" इत्युक्ते हस्तिपालाः सिंहपाला वा द्रष्टव्याः । तेऽपि 'पुरा' पूर्व 'गमिताः' प्रतिबोधिताः कर्तव्याः, यथा-अस्माकमेका क्षुल्लिका युष्मदीयं सिंहं हस्तिनं वा दृष्ट्वा क्षोभमुपागता, ततः सा यथा क्षोभं मुञ्चति तथा कर्तव्यम् । एवं तेषु प्रतिबोधितेषु सा क्षिप्तचित्तीभूता तेषामन्तिके नीयते, नीत्वा च तासां मध्ये या तस्या अपि क्षुल्लिकाया लघुतरी तया स सिंहः कणे धार्यते, हस्ती वा तया धार्यते । ततः सा29 क्षिप्तचित्ता प्रोच्यते-त्वत्तोऽपि या 'क्षुल्लकतरा' अतिशयेन लघुस्तया एष सिंहः कर्णे धृतः, अथवा हस्ती अनया धाटितः, त्वं तु बिभेषि, किं त्वमेतस्या अपि भीरुर्जाता !, धार्थ्यमवलम्ब्यतामिति ॥ ६२०६ ।।
सत्थऽग्गी थंभेतुं, पणोल्लणं णस्सते य सो हत्थी।
थेरी चम्म विकड्डण, अलायचकं तु दोमुं तु ॥ ६२०७॥ 25 यदि शस्त्रं यदि वाऽमिं दृष्ट्वा क्षिप्ता भवेत् ततः शस्त्रमग्निं च विद्यया स्तम्भित्वा तस्य पादाभ्यां प्रणोदनं कर्तव्यम् , भणितव्यं च तां प्रति-एषोऽस्माभिरमिः शस्त्रं च पादाभ्यां प्रणुन्नः, त्वं तु ततोऽपि बिभेषीति । यदि वा पानीयेनार्दीकृतहस्तादिभिः सोऽग्निः स्पृश्यते, भण्यते च एतस्मादपि तव किं भयम् ? । तथा यतो हस्तिनस्तस्या भयमभूत् स हस्ती स्वयं पराङ्मुखो गच्छन् दय॑ते, यथा-यतस्त्वं बिभेषि स हस्ती 'नश्यति' नश्यन् वर्तते ततः 30 कथं त्वमेवं भीरोरपि भीरुर्जाता है । तथा या गर्जितं श्रुत्वा भयमग्रहीत् तं प्रति उच्यतेस्थविरा नभसि शुष्कं चर्म विकर्षतिएवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो भयं जरयति । तथा यदि अमेः स्तम्भनं न ज्ञायते तदा 'द्वयोः' अमौ विद्युति च भयं प्रप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org