________________
१६३८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे ८ क्षिप्त प्रकृते सूत्रम् १० एका च 'तस्य जितशत्रो राज्ञो भगिनी भातुरनुरागेण राज्यश्रियं प्रहाय जितशत्रुपत्रज्याप्रतिपत्त्यनन्तरं कियताऽपि कालेन प्रव्रजिता । सा च तं ज्येष्ठप्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भातुरनुरागेण 'क्षिप्ता' अपहृतचित्ता जाता । तत्र च 'अयम्' अनुशिष्टिरूफ. स्तस्याः प्रगुणीकरणे विधिः ॥ ६१९९ ॥ तमेवाह
- तेलोकदेवमहिता, तित्थगरा णीरता गता सिद्धि ।
थेरा वि गता केई, चरण-गुणपभावगा धीरा ॥ ६२००॥ तस्या पात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूताया आश्वासनार्थमियं देशना कर्तव्या, यथा--- मरणपर्यवसानो जीवलोकः । तथाहिये तीर्थकरा भगवन्तः त्रैलोक्यदेवैः-त्रिभुवननिवासिभिर्भवनपत्यादिभिः महितास्तेऽपि 'नीरजसः' विगतसमस्तकर्मपरमाणवः सन्तो गताः 10 सिद्धिम् । तथा स्थविरा अपि केचिन्महीयांसो गौतमखामिप्रभृतयः 'चरण-गुणप्रभावकाः' चरणं-चारित्रं गुणः-ज्ञानं ताभ्यां जिनशासनस्य प्रभावकाः 'धीराः' महासत्त्वा देव-दानवैरप्यक्षोभ्याः सिद्धिं गताः । तद् यदि भगवतामपि तीर्थकृतां महतामपि च महर्षीणामीहशी मतिस्ततः का कथा शेषजन्तूनाम् ! । तस्मादेतादृशीं संसारस्थितिमनुचिन्त्य न शोकः कर्तव्य इति ॥ ६२००॥ तथा
बंभी य सुंदरी या, अन्ना वि य जाउ लोगजेट्ठाओ।
ताओ वि अ कालगया, किं पुण सेसाउ अजाओ ॥ ६२०१॥ सुगमा (गा० ३७३८)॥ ६२०१॥ अन्यच्च
न हु होति सोतियव्वो, जो कालगतो दढो चरित्तम्मि ।
सो होति सोतियन्बो, जो संजमदुब्बलो विहरे ॥ ६२०२ ॥ 20 "न हु" नैव स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः । स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् ॥ ६२०२॥ कथम् ? इत्याह
जो जह व तह व लद्धं, भुंजति आहार-उवधिमादीयं ।
समणगुणमुक्कजोगी, संसारपवड्डतो होति ॥ ६२०३ ॥ यो नाम यथा वा तथा वा, दोषदुष्टतया निर्दोषतया वा इत्यर्थः, लब्धमाहारोपध्यादिकं 25 'भुङ्क्ते' उपभोग-परिभोगविषयीकरोति स श्रमणानां गुणाः-मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः-परित्यक्तास्तद्रहिता ये योगाः-मनो-वाकायव्यापारास्ते श्रमणगुणमुक्तयोगाः ते यस्य सन्ति स श्रमणगुणमुक्तयोगी संसारप्रवर्धको भवति । ततो यः संयमदुर्बलो विहृतवान् स एव शोच्यः, भवदीयस्तु प्रात्रादिः कालगतो दृढश्चारित्रे ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः ॥ ६२०३ ॥ सम्प्रति "जड्डादितिरिक्ख" इत्यस्य व्याख्यानार्थमाह
जहादी तेरिच्छे, सत्थे अगणीय थणिय विजू य ।
ओमे पडिभेसणता, चरियं पुव्वं परूवेउं ॥ ६२०४ ॥ जड्डः-हस्ती, आदिशब्दात् सिंहादिपरिग्रहः, तान् तिरश्चो दृष्ट्वा । किमुक्तं भवति ?गजं वा मदोन्मतं सिंहं वा गुञ्जन्तं व्याघ्र वा तीक्ष्णनखर-विकरालमुखं दृष्ट्वा काऽपि निर्ग्रन्थी
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org