________________
भाष्यगाथाः ६१९२-९९] षष्ठ उद्देशः ।
१६३७ अनेन सम्बन्धेनायातस्यास्य व्याख्या-"खित्तचित्तं" ति क्षिप्तं-नष्टं राग-भया-ऽपमानैश्चित्तं यस्याः सा क्षिप्तचित्ता, तां निर्ग्रन्थीं निर्ग्रन्थो गृह्णानो वाऽवलम्बमानो वा नातिकामति आज्ञामिति सूत्रार्थः ॥ अथैनं भाष्यकारो विस्तरेण प्ररूपयितुमाह
रागेण वा भएण व, अहवा अवमाणिया णरिंदेण ।
एतेहिँ खित्तचित्ता, वणिताति परूविता लोए ॥ ६१९५॥ रागेण यदि वा भयेनाथवा 'नरेन्द्रेण' प्रजापतिना, उपलक्षणमेतत्, सामान्येन वा प्रभुणा 'अपमानिताः' अपमानं ग्राहिताः, एतैः खलु कारणैः क्षिप्तचित्ता भवन्ति । ते च लोके उदाहरणत्वेन परूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्ता यथा-वणिग्भार्या भर्तारं मृतं श्रुत्वा क्षिप्तचित्ता जाता ॥ ६१९५ ।। भयेनापमानेन च क्षिप्तचित्तत्वे उदाहरणान्याह
भयओ सोमिलबडुओ, सहसोत्थरिया य संजुगादीसु।
णरवतिणा व पतीण व, विमाणिता लोगिगी खेत्ता ॥ ६१९६ ॥ 'भयतः' भयेन क्षिप्तचित्तो यथा गजसुकुमालमारको जनार्दनभयेन सोमिलनामा 'बटुकः' ब्राह्मणः । अथवा 'संयुगादिषु' संयुगं-सङ्ग्रामस्तत्र, आदिशब्दात् परबलसमापतनादिपरिग्रहः, तैः, गाथायां सप्तमी तृतीयार्थे, 'सहसा' अतर्कितम् 'अवस्तृताः समन्ततः परिगृहीता मनुष्या भयेन क्षिप्तचिचा भवन्ति । एवं भयेन क्षिप्तचित्तत्वे उदाहरणमुक्तम् । सम्प्र-16 त्यपमानत आह-नरपतिना समस्तद्रव्यापहरणतः काचिद् विमानिता पत्या वा काचिन्म हेलाऽपमानिता क्षिप्तचिता भवेत् । एवमादिका लौकिकी क्षिप्तचिता मन्तव्या ॥ ६१९६ ॥ सम्प्रति लोकोत्तरिकी तामेवाह
रागम्मि रायखुड्डी, जहाति तिरिक्ख चरिय वातम्मि ।
रागेण जहा खेत्ता, तमहं वोच्छं समासेणं ॥ ६१९७॥ 20 __ 'रागे' सप्तमी तृतीयार्थे रागेण क्षिप्तचित्ता यथा वक्ष्यमाणा राजक्षुल्लिका । भयेन यथा 'जड्डादीन्' हस्तिप्रभृतीन् तिरश्चो दृष्ट्वा । अपमानतो यथा चरिकया कयाचिद् वादे पराजिता सती काचिन्निम्रन्थी क्षिप्तचित्ता जायते । तत्र रागेण यथा राजक्षुल्लिका क्षिप्त चिचाऽभवत् तदहं वक्ष्ये समासेन ॥ ६१९७ ॥
जियसत्तू य णरवती, पवजा सिक्खणा विदेसम्मी।। काऊण पोतणम्मि, सव्वायं णिव्वुतो भगवं ॥ ६१९८॥ एका य तस्स भगिणी, रजसिरिं पयहिऊण पव्वइया।
भातुयअणुराएणं, खेत्ता जाता इमा तु विही ॥ ६१९९ ॥ जितशत्रुर्नाम नरपतिः । तस्य प्रव्रज्याऽभवत्, धर्म तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यां स प्रतिपन्नवानित्यर्थः । प्रव्रज्यानन्तरं च तस्य 'शिक्षणा' ग्रहणशिक्षा आसेव-30 नाशिक्षा च प्रवृत्ता । कालान्तरे च स विदेशं गतः । पोतनपुरे च परतीर्थिभिः सह वाद उपस्थितः । ततस्तैः सह शोभनो वादः सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् 'निर्वृतः' मुक्तिपदवीमधिरूढः ॥ ६१९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org