SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १६३६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्तप्रकृते सूत्रम् १० यद्वा स उदीर्णमोहस्तां जलमध्ये मुश्चेत् , आयत्ता यस्माद् भवतु करोतु वा 'हावान्' मुखविकारानिति । कारणे तु नावुदके लेपोपरि वा अवतारणं उत्तारणं वा कुर्वन् यतनया गृहीयाद् अवलम्बेत वा ॥ ६१९१ ॥ अथ ग्रहणा-ऽवलम्बनपदे व्याख्याति सव्वंगियं तु गहणं, करेहिं अवलंबणेगदेसम्मि । जह सुत्तं तासु कयं, तहेव वतिणो वि वतिणीए ॥ ६१९२ ॥ __ ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते । अवलम्बनं तु तद् उच्यते यद् एकस्मिन् देशे-बाहादौ ग्रहणं क्रियते । तदेवं यथा तासु निर्ग्रन्थीषु 'सूत्रं' सूत्रत्रयं कृतम् । किमुक्तं भवति !-यथा निम्रन्थो निर्ग्रन्थ्याः कारणे ग्रहणमवलम्बनं वा कुर्वन् नाऽऽज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितम् ; तथैवार्थत इदं द्रष्टव्यम्-'वतिनोऽपि' साधोरपि दुर्गादौ पादौ नावु10दकादौ वा प्रपततो बतिन्या कारणे ग्रहणमवलम्बनं वा कर्तव्यम् ॥ ६१९२ ॥ कया पुनर्यतनया ! इति चेद् अत आह जुगलं गिलाणगं वा, असहुं अण्णेण वा वि अतरंतं । गोवालकंचुगादी, सारक्खण णालबद्धादी ॥ ६१९३ ॥ 'युगलं नाम' बालो वृद्धश्च तद्वा, अपरं वा ग्लानम् अत एव 'असहिष्णुं दुर्गादिषु गन्तु15 मशक्नुवन्तम् , 'अन्येन वा ग्लानत्ववर्जेन कारणेन 'अतरन्तम्' अशक्तम्, गोपालकचुकादिपरिधानपुरस्सरं नालबद्धा संयती, आदिग्रहणेनानालबद्धाऽपि संरक्षति, गृहाति अवलम्बते वा इत्यर्थः ॥ ६१९३ ॥ ॥ दुर्गप्रकृतं समाप्तम् ॥ क्षित चि त्ता दि प्रकृतम् 20 सूत्रम् खित्तचित्तं निग्गंथि निग्गंथे गिण्हमाणे वा अव लंबमाणे वा नाइकमइ १०॥ अस्य सूत्रस्य सम्बन्धमाह ओवुझंती व भया, संफासा रागतो व खिप्पेजा। 25 संबंधत्थविहिण्णू, वदंति संबंधमेयं तु ॥ ६१९४ ॥ पानीयेनापोह्यमाना वा भयात् क्षिप्येत, क्षिप्तचित्ता भवेदित्यर्थः । यद्वा संस्पर्शतो यो राग उत्पद्यते तस्माद्वा तत्र साधावन्यत्र गते सति क्षिप्तचित्ता भवेत् । अतः क्षिप्तचित्तासूत्रमारभ्यते । एवं सम्बन्धार्थविधिज्ञाः सूरयोऽत्र सूत्रे एनं सम्बन्धं वदन्ति ॥ ६१९४ ॥ १ तदेवं व्याख्यातं तृतीयमपि सूत्रम् । सम्प्रति निम्रन्थानामेतदेव सूत्रत्रयमतिदिश. भाह-"जह सुत्तं तासु कयं" इत्यादि, यथा नि कां० ॥२ "जुगलं णाम संजतं गिलाणं संजति चं मिलाणि, अधवा चाल-वुद्धा" इति चूर्णी विशेषचूर्णौ च ॥ ३ यद्वा गृहतोऽवलम्बमानस्य वा निर्ग्रन्थस्य सम्बन्धी यः संस्पर्शः तस्माद् यो राग को० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy