SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६१८३-९१ ] षष्ठ उद्देशः । १६३५ दके सेकादौ च' वक्ष्यमाणस्वरूपे निर्ग्रन्थीं गृह्णतो निष्कारणे त एव दोषाः । " जयणाए " चि कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा । यतना चाग्रतो वक्ष्यते ॥ ६१८५ ॥ अथ प्रस्खलन- प्रपतनपदे व्याचष्टे भूमीऍ असंपत्तं, पत्तं वा हत्थ - जाणुगादीहिं । पक्खुलणं णायव्वं, पवडण भूमीय गत्तेहिं ।। ६१८६ ॥ भूमावसम्प्राप्तं हस्त - जानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्व यत् पतनं तत् प्रपर्तनम् ॥ ६१८६ ॥ अहवा वि दुग्ग विसमे, थद्धं भीतं व गीत थेरो तु । सिचयंतरेतरं वा, गिण्हंतो होति निद्दोसो || ६१८७ ॥ 'अथवा ' इति प्रकारान्तरद्योतकः । उक्तास्तावद् निर्ग्रन्थी गृहतो दोषाः परं द्वितीयपदे 10 दुर्गे विषमे वा तां स्तब्धां भीतां वा गीतार्थः स्थविरः सिचयेन - वस्त्रेणान्तरिताम् इतरां वा गृह्णन् निर्दोषो भवति ॥ ६१८७ ॥ व्याख्यातं प्रथमसूत्रम् । सम्प्रति द्वितीयसूत्रं व्याख्याति - पंको खलु चिक्खल्लो, आगंतू पयणुओ दुओ पणओ । सो पुण सजलो सेओ, सीतिजति जत्थ दुविहे वी ॥ ६१८८ ॥ पङ्कः खलु चिक्खल्ल उच्यते । आगन्तुकः प्रतनुको द्रुतश्च पनकः । यत्र पुनः 'द्विविधेऽपि' 15 पक्के पनके वा “सीइज्जति" निमज्जते स पुनः सजल: सेक उच्यते ॥ ६१८८ ॥ पंक- पण नियमा, ओगसणं वुब्भणं सिया सेए । थिमियम्मि णिमञ्जणता, सजले सेए सिया दो वि ॥ ६१८९ ॥ पङ्क-पनकयोर्नियमाद् ‘अपकसनं' इसनं भवति । सेके तु " वुज्झणं" 'अपोहनं' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमज्जनं भवेत् । सजले तु सेके 'द्वे अपि' अपवहन - निमज्जने 20 स्याताम् ॥ ६१८९ ॥ अथ तृतीयं नौसूत्रं व्याख्याति - ओयारण उत्तारण, अत्थुरण ववुग्गहे य सतिकारो । छेदो व दुवेगरे, अतिपिल्लण भाव मिच्छत्तं ॥ ६१९० ॥ कारणे निर्मन्थीं नावम् 'अवतारयन्' आरोपयन् उत्तारयन् वा यद्यास्तरणं वपुर्यहं वा करोति तदा स्मृतिकारो भुक्तभोगिनोस्तयोर्भवति । छेदो वा नखादिभिर्द्वयोरेकतरस्य भवेत् । अतिप्रेरणे 25 च 'भावः' मैथुनाभिलाष उत्पद्येत । मिथ्यात्वं वा तद् दृष्ट्वा कश्चिद् गच्छेत् ॥ ६१९०॥ ते नाद निर्ग्रन्थीं गृह्णतो दोषा उक्ताः । अथ लेपोपरि सन्तारयतो दोषानाहअंतोजले वि एवं, गुज्झंग फास इच्छऽणिच्छंते । मुचे व आयत्ता, जा होउ करेतु वा हावे ॥ ६१९१ ॥ 'अन्तर्जलेऽपि' जलाभ्यन्तरेऽपि गच्छन्तीं गृह्णत एवमेव दोषा मन्तव्याः । तथा गुझान - 30 स्पर्शे मोह उदियात्, उदिते च मोहे यदि इच्छति नेच्छति वा तत उभयथाऽपि दोषाः । १ पत्तं, संपत्तं वा वि हत्थ जाणूहिं ताभा• ॥ २° तनमिति ॥ ६१८६ ॥ अथ प्रथमसूत्रविषयं द्वितीयपद माह – अहवा कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy