________________
१६३४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ दुर्गप्रकृते सूत्रम् ७-९ पतितुकामामित्यर्थः । “पवडमाणि व” ति प्रकर्षण-भूमौ सर्वैरपि गात्रैः पतन्तीम् । “गिहमाणे व" ति बाह्वादावङ्गे गृहन् वा, "अवलंबमाणे व" ति अवलम्बमानो वा' बाहादौ गृहीत्वा धारयन् ; अथवा 'गृह्यन' सर्वाङ्गीणां धारयन् , 'अवलम्बमानः' देशतः करेण गृहुन् , साहयमित्यर्थः । नातिकामति खाचारमाज्ञां वा इति प्रथमसूत्रम् ॥ । द्वितीयसूत्रमप्येवमेव । नवरम् --सेको नाम-पके पनके वा सजले यत्र निमज्यते तत्र वा, पङ्कः-कर्दमः तत्र वा, पनको नाम-आगन्तुकः प्रतनुद्रवरूपः कर्दम एव तत्र वा, उदकं प्रतीतं तत्र वा, "ओकसमाणिं व" त्ति 'अपकसन्तीं वा' पक-पनकयोः परिहसन्तीं "ओवुज्झमाणि व" त्ति 'अपोह्यमानां वा' सेकेन उदकेन वा नीयमानां गृह्णन् वा अवलम्बमानो
वा नातिकामति ॥ 10 तृतीयसूत्रे निम्रन्थीमेव नावमारोहन्तीं वा अवरोहन्ती वा गृह्णानो वा अवलम्बमानो वा नातिकामति इति सूत्रत्रयार्थः ॥ सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे
तिविहं च होति दुग्गं, रुक्खे सावय मणुस्सदुग्गं च।
णिकारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा ॥ ६१८३ ॥ त्रिविधं च भवति दुर्गम् , तद्यथा-वृक्षदुर्ग श्वापददुर्ग मनुष्यदुर्ग च । यद् वृक्षैरतीव 16 गहनतया दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम् । यत्र व्याघ्र-सिंहादीनां भयं तत् श्वापददुर्गम् । यत्र म्लेच्छ-बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्यन्थीं गृह्णाति अवलम्बते वा तदा चतुर्गुरु, आज्ञादयश्च दोषाः ।। ६१८३ ॥
मिच्छत्ते सतिकरणं, विराहणा फास भावसंबंधो।
पडिगमणादी दोसा, भुत्ता-ऽभुत्ते व णेयव्या ॥ ६१८४ ॥ निर्ग्रन्थी गृहन्तं तं दृष्ट्वा कोऽपि मिथ्यात्वं गच्छेत्-अहो! मायाविनोऽमी, अन्यद् वदन्ति अन्यच्च कुर्वन्ति । स्मृतिकरणं वा भुक्तभोगिनो भवति, अभुक्तभोगिनस्तु कुतूहलम् । ततश्च संयमविराधना । स्पर्शतश्च भावसम्बन्धो भवति । ततः प्रतिगमनादयो दोषा भुक्ता. नामभुक्तानां वा साधु-साध्वीनां ज्ञातव्याः ॥ ६१८४ ॥ अथ विषमपदं व्याख्याति
तिविहं च होति विसमं, भूमि सावय मणुस्सविसमं च ।
तम्मि वि सो चेव गमो, णावोदग सेय जतणाए ॥ ६१८५ ॥ त्रिविधं च भवति विषमम्-भूमि विषमं श्वापदविषमं मनुष्य विषमं च । भूमि विषमं नामगर्ता-पाषाणाद्याकुलो भूभागः, श्वापद-मनुष्यविषमे तु श्वापद-मनुष्यदुर्गवद् मन्तव्ये । अत्र
भूमिविषमेणाधिकारः । पर्वतपदं तु प्रतीतत्वाद् न व्याख्यातम् । 'तस्मिन्नपि' विषमे पर्वते वा 50 निम्रन्थीं गृह्णतश्चतुर्गुरुकप्रायश्चित्तादिरूपः स एव गमो भवति यो दुर्गे भणितः । तथा 'नावु.
१ 'म् 'आरोहन्तीं वा' प्रविशन्तीम् 'अवरोहन्तीं वा' उत्तरन्तीं गृलानो का ॥ २र्थः ॥ अथ भाष्य भा० ॥ ३ 'रुकाः । तत्रापि' तादृशेऽपि दुर्गे निर्ग्रन्ध्या निष्कारणे ग्रहणेऽवलम्बने वा आज्ञादयो दोषाः ॥६१८३॥ अपरे चामी दोषाः-मिच्छत्ते का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org