________________
१६३२
सनियुक्ति-लधुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ कण्टका०प्रकृते सूत्रम ३-६ मित्यर्थः ॥ ६१७६ ॥ के पुनस्ते द्वे ? इत्याह
गिहि अण्ण तित्थि पुरिमा, इत्थी वि य गिहिणि अण्ण तित्थीया।
संबंधि एतरा वा, वइणी एमेव दो एते ॥ ६१७७ ॥ गृहस्थपुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयम् , गृहस्थी अन्यतीर्थिकी चेति वा द्वयम् , सम्ब5न्धिनी 'इतरा वा' असम्बन्धिनी व्रतिनी एवं वा द्वयम् । एतेषां द्विकानामन्यतरेण कुशलेन
आगाढे कारणे कारयितव्यम् ।। ६१७७ ॥ आह-'श्रमणानामभावे सूत्रनिपातो भवति' (गा० ६१७४ ) इत्युक्तम् , कदा पुनरसौ साधूनामभावो भवति ? इत्याह
तं पुण सुण्णारण्णे, दुहारण्णे व अकुसलेहिं वा ।
कुसले वा दूरत्थे, ण चएइ पदं पि गंतुं जे ॥ ६१७८ ॥ 10 'साधवो न भवन्ति' इति यदुक्तं तत् पुनरित्थं सम्भवति–'शून्यारण्य' ग्रामादिभिर्वि रहिता अटवी, 'दुष्टारण्यं वा' व्याघ्र-सिंहादिभयाकुलम् , एतयोः साधूनामभावो भवेत् । उपलक्षणत्वाद् अशिवादिभिः कारणैरेकाकी सञ्जात इत्यपि गृह्यते । एषा साधुनामसदसत्ता । सदसत्ता तु सन्ति साधवः परमकुशलाः-कण्टकोद्धरणेऽदक्षाः, अथवा यः कुशलः सः 'दूरस्थः'
दूरे वर्तते, स च कण्टकविद्धपादः पदमपि गन्तुं न शक्नोति ततः पूर्वोक्ता यतना कर्तव्या 15॥ ६१७८ ॥ अथ सामान्येन यतनामाह
परपक्ख पुरिस गिहिणी, असोय-कुसलाण मोत्तु पडिवक्खे ।
पुरिस जयंत मणुण्णे, होंति सपक्खेतरा वा तू ॥ ६१७९ ॥ इह प्रथमं पश्चार्द्ध व्याख्याय ततः पूवार्द्ध व्याख्यास्यते । ये 'यतमानाः' संविमाः साम्भोगिकाः पुरुषास्तैः प्रथमं कारयेत् , तदभावे अमनोज्ञैः-असाम्भोगिकैः, तदभावे ये इतरे20 पार्श्वस्थादयस्तैर्वा कारयेत् । एषा स्वपक्षे यतना भणिता । अथैष खपक्षो न प्राप्यते ततः
"परपक्खे"त्यादि पूर्वार्द्धम् –'परपक्षे' गृहस्था-ऽन्यतीर्थिकरूपे प्रथमं पुरुषैः, ततः 'गेहिनीभिः' स्त्रीभिरपि कारयेत् , तत्राप्यशौचवादिभिः कुशलैश्च कारापणीयम् । अत एवाह-अशौचवादि-कुशलानां 'प्रतिपक्षाः' ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम् । अथै
तेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत् , तत्रापि प्रथमं मातृ-भगिन्यादिभिनीलबद्धाभिः, 25 तदभावेऽसम्बन्धिनीभिरपि स्थविरा-मध्यमा-तरुणीभिर्यथाक्रमं कारयेत् ॥ ६१७९ ॥ कथं पुनस्तया कण्टक उद्धरणीयः ? इत्याह
सल्लुद्धर णक्खेण व, अच्छिव वत्थंतरं व इत्थीसु ।
भूमी-कट्ठ-तलोरुसु, काऊण सुसंवुडा दो वि ॥ ६१८० ॥ शल्योद्धरणेनै नखेन वा पादमस्पृशन्ती कण्टकमुद्धरति । अथैवं न शक्यते ततो · वस्त्रा30न्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा तले वा ऊरौ वा कृत्वा उद्धरेत् । 'द्वावपि च' संयती-संयती सुसंवृतावुपविशतः । एषः 'स्त्रीषु' कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः॥६१८०]]
१ति "जे" इति पादपूरणे निपातो वाक्यालङ्कारे, ततः का० ॥ २ 'त् । 'तुः पादपूरणे । एषा का० ॥ ३°न “णक्खेण व" त्ति नखहरणिकया वा पाद° कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org