________________
भाष्यगाथाः ६१७०-७६] षष्ठ उद्देशः।
१६३१ गिहिएहिँ पच्छकम्म, तम्हा समणेहिँ कायव्यं ॥ ६१७३ ॥ एत एव दोषा असंयतिकाभिः कण्टकोद्धरणं कारयतो मन्तव्याः, 'पश्चात्कर्म च' अप्कायेन हस्तप्रक्षालनरूपं तासु भवति । गृहिभिस्तु कारयतः पश्चात्कर्म भवति न पूर्वक्ता दोषाः। अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्तव्यम् ॥ ६१७३ ॥ अत्र परः प्राह
एवं सुत्तं अफलं, सुत्तनिवातो तु असति समणाणं ।। गिहि अण्णतिथि गिहिणी, परउत्थिगिणी तिविह भेदो॥६१७४॥ यदि संयंतीभिः न कारयितव्यं तत एवं सूत्रमफलं प्रामोति । सूरिराह-सूत्रनिपातः श्रमणानामभावे मन्तव्यः । तत्र च प्रथमं गृहिभिः कण्टकोद्धरणं कारणीयम् , तदभावेऽन्यतीर्थिकैः, तदप्राप्तौ गृहस्थाभिः, तदसम्भवे परतीर्थिकीभिरपि कारयितव्यम् । एषु च प्रत्येक त्रिविधो भेदः । तद्यथा गृहस्थस्त्रिविधः-पञ्चात्कृतः श्रावको यथाभद्रकश्च । एवं परतीर्थि-10 कोऽपि त्रिधा मन्तव्यः । गृहस्था परतीर्थिकी च त्रिविधा-स्थविरा मध्यमा तरुणी चेति । तत्र गृहस्थेन कारयन् प्रथमं पश्चात्कृतेन, ततः श्रावकेण, ततो यथाभद्रकेणापि कारयति । स च कण्टकाकर्षणानन्तरं प्रज्ञापनीयः-मा हस्तप्रक्षालनं कार्षीः । एवमुक्ते यद्यसावशौचवादी तदा हस्तं हस्तेनैव प्रोञ्छति प्रस्फोटयति वा ॥ ६१७४ ॥ अथ शौचवादी ततः
जइ सीसम्मि ण पुंछति, तणु पोत्तेसु व ण वा वि पप्फोडे । 15
तो सि अण्णेसि असति, दवं दलंति मा वोदगं घाते ॥ ६१७५ ॥ यदि हस्तं शीर्षे वा तनौ वा 'पोतेषु वा' वस्त्रेषु न प्रोञ्छति न वा प्रस्फोटयति 'गृहे गतो हस्तं प्रक्षालयिष्यामि' इति कृत्वा, ततः "से" तस्य अन्येषाम् 'असति' अभावे प्राशुक. मात्मीयं द्रवं हस्तधावनाय ददति, मा 'उदकम्' अप्कायं घातयेदिति कृत्वा । गृहस्थानामभावे । परतीर्थिकेनापि कारयन् एवमेव पश्चात्कृतादिक्रमेण कारयेत् । तेषामभावे गृहस्थाभिरपि कार-20 येत् ॥ ६१७५ ॥ कथम् ? इत्याह
माया भगिणि धूया, अज्जिय णत्तीय सेस तिविधाओ।
आगाढ़े कारणम्मि, कुसलेहिं दोहि कायव्वं ॥ ६१७६ ॥ .. या तस्य निर्ग्रन्थस्य माता भगिनी दुहिता वा 'अर्यिका वा' पितामही 'नप्तका वा' पौत्री तया कारयितव्यम् । एतासामभावे याः 'शेषाः' अनालबद्धाः स्त्रियस्ताभिरपि कारयेत् । ताश्च 25 त्रिविधाः-स्थविरा मध्यमास्तरुण्यश्च । तत्र प्रथम स्थविरया, ततो मध्यमया, ततस्तरुण्याऽपि कारयितव्यम् । आगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्तव्यम् , कारयितव्य.
१ यतीभिः कण्टकोद्धरणं सूत्रेऽनुज्ञातमपि साधुभिः न कार° को० ॥ २ 'तः सूत्राव. तारः श्रमणानाम 'असति' अभावे कां०॥ ३ मा वा दगं ताभा० कां । एतदनुसारेणैव कां० टीका, दृश्यतां टिप्पणी ४ ॥ ४ तस्य 'अन्यस्य' अशौचवादिनः 'असति' अभावे प्रासुकमात्मीयं द्रवं हस्तधावनाय ददति, मा शौचवादितया गृहं गतः सन् 'दकम्' अकायं घातयेदिति कृत्वा । हन्त्यर्थाश्चेतिवदत्र(?) चौरादिको हन्धातुरवगन्तव्यः । तथा गृहस्थाना कां ॥ ५'आगाढे कारणे' अन्येनोद्धर्तुमशक्य-प्रबलव्यथाकारिकण्टकलक्षणे कुशलाभ्यां कां• ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org