________________
१६२८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कण्टका०प्रकृते सूत्रम् ३-६
'प्रायः' प्रायेण 'अकल्पिकानि' 'नो कल्पन्ते' इति निषेधप्रतिपादकानि सूत्राणि इहाध्ययंने गतानि । 'इदानीम्' इत ऊर्द्धमिमानि कल्पिकसूत्राणि भण्यन्ते । 'वा' विभाषायाम् , सूत्रेणानुज्ञायार्थतः प्रतिषेधः क्रियते, एवं वैकल्पिकान्यनुज्ञासूत्राणीत्यर्थः । अथ किमर्थमत्र सूत्र एवानुज्ञा कृता ? इत्याह-"आरोवणा" इत्यादि । यदि कारणे निर्ग्रन्थस्य निम्रन्थी निम्रन्थ्या वा निर्ग्रन्थः कण्टकादिकं न नीहरति तदा चतुर्गुरु । एवमारोपणा 'गुरुका' महती तेन कारणेन 'अन्योन्यं' परस्परं समनुज्ञा सूत्रेषु कृता ।। ६१६३ ॥ आह-यदि सूत्रेणानुज्ञातं ततः किमर्थमर्थतः प्रतिषिध्यते ? इति अत आह
जह चेव य पडिसेहे, होति अणुना तु सव्वसुत्तेसु ।
तह चेव अणुण्णाए, पडिसेहो अत्थतो पुव्वं ।। ६१६४ ॥ 10 यथैव कण्ठतः सूत्रपदैः प्रतिषेधे कृते सर्वसूत्रेप्वप्यर्थतोऽनुज्ञा भवति तथैव येषु सूत्रेषु साक्षात् 'अनुज्ञातम्' अनुज्ञा कृता तेषु पूर्वमर्थतः प्रतिषेधस्ततोऽनुज्ञा क्रियते ॥ ६१६४ ।। अथवा प्रकारान्तरेण सम्बन्धः, तमेवाह
- तहाणं वा वुत्तं, निग्गंथो वा जता तु ण तरेजा।
सो जं कुणति दुहट्टो, तदा तु तट्ठाणमावजे ॥ ६१६५ ॥ 15 अथवा 'तत्स्थानं' तस्य-प्राणातिपातादिकर्तुः स्थान प्रायश्चित्तं सम्यगप्रतिपूरयतोऽभ्या
ख्यानदातुर्मवति इत्युक्तम् । अत्रापि निर्ग्रन्थः कण्टकादिकं यदा उद्धत 'न तरेत्' न शक्नुयात् तदा यदि निम्रन्थी तस्य कण्टकादिनीहरणं न करोति तदा स निर्ग्रन्थः 'दुःखार्तः' पीडितो यद् आत्मविराधनां संयमविराधनां वा करोति 'तत्स्थानं' तन्निष्पन्नं प्रायश्चित्तं सा निर्ग्रन्थी आपर्धते । अत इदं सूत्रमारभ्यते ॥ ६१६५ ॥ 20 अनेन सम्बन्धेनायातस्यास्य व्याख्या-निम्रन्थस्यै 'अधःपादे' पादतले स्थाणुर्वा कण्टको
वा हीरो वा शर्करो वा 'पर्यापतेत्' अनुप्रविशेत् , 'तच्च' कण्टकादिकं निर्ग्रन्थो न शक्नुयात् 'नीहतुं वा' निष्काशयितुं वा 'विशोधयितुं वा' निःशेषमपनेतुम् , तद् निम्रन्थी नीहरन्ती वा विशोधयन्ती वा नातिकामति, आज्ञामिति गम्यते इति प्रथमसूत्रम् ॥
द्वितीयसूत्रे-निर्ग्रन्थस्य 'अक्ष्णि' लोचने 'प्राणा वा' मशकादयः सूक्ष्माः 'बीजानि वा' 35 सूक्ष्माणि श्यामाकादीनि 'रजो वा' सचित्तमचित्तं वा पृथिवीरजः 'पर्यापतेत्' प्रविशेत् ,
१ यने उद्देशषट्केऽपि गतानि । 'इदानीम्' इत ऊमिमानि 'वा' इति विकल्पेन कल्पिकानि सूत्राणि भण्यन्ते । सूत्रेणानुज्ञायार्थतः को० ॥ २ स्परं निम्रन्थस्य निर्ग्रन्थ्याश्च कण्टकोद्धरणादौ समनुज्ञा एतेषु चतुर्वपि सूत्रेषु का० ॥ ३ 'प्वपि 'अर्थतः' 'निर्युक्तौ भाष्ये वाऽनुज्ञा कां० ॥ ४ °द्यते । उपलक्षणमिदम् , तेन निर्ग्रन्थ्या अशक्नुवत्याः कण्टका
यदि निर्ग्रन्थो न कुरुते तदा निग्रन्थी यत् परितापादिकमवाप्नोति तन्निष्पन्नं निर्ग्रन्थस्य प्रायश्चित्तम् इत्यत्र सूत्रचतुष्टयेऽभिधीयते ॥ ६१६५ ॥ अनेन कां० ॥ ५ °स्य, चशब्दोवाक्योपन्यासे, 'अधः का० ॥ ६°म् ॥ तथा-निर्घ कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org