SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 16 १६२४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रस्तारप्रकृते सूत्रम् २ याणि योग-चिकिस्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति ॥ ६१४३ ॥ स चायम् बच्चइ भणाइ आलोय णिकाए पुच्छिए णिसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाय वदमाणे ॥६१४४ ॥ मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ ६१४५ ॥ गाथाद्वयमपि गतार्थम् (गा० ६१३७-३८) ॥ ६१४४ ॥ ६१४५ ।। अथादत्तादाने मोदकग्रहणदृष्टान्तं भावयति जा फुसति भाणमेगो, वितिओ अण्णत्थ लड्डते ताव । 'लभ्रूण णीति इयरो, ते दिस्स इमं कुणति कोई ॥ ६१४६ ॥ __एकत्र गेहे भिक्षा लब्धा, सा चावमेन गृहीता । यावद् असौ 'एकः' अवमरानिको भाजनं 'स्पृशति' सम्मार्टि तावद् 'द्वितीयः' रत्नाधिकः 'अन्यत्र' सङ्खड्यां लड्डुकान् लब्धवान् , लब्ध्वा च निर्गच्छति । 'इतरः पुनः' अवमः 'तान्' मोदकान् दृष्ट्वा कश्चिदीर्थ्यालरिदं करोति ॥ ६१४६ ॥ किम् ? इत्यत आह - वचइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ ६१४७ ॥ मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ ६१४८॥ "वच्चइ" ति स निवृत्त्य गुरुसकाशं व्रजति । आगम्य च भणति आलोचयति-रत्नाधिकेना20 दत्ता मोदका गृहीता इति । शेषं प्राग्वत् (गा०६१३७-३८) ॥ ६१४७ ॥ ६१४८ ॥ अथाविरतिकावादे प्रस्तारमाह रातिणितवाइतेणं, खलिय-मिलिय-पेल्लणाएँ उदएणं । देउल मेहुण्णम्मि, अब्भक्खाणं कुडंगे वा ॥ ६१४९ ॥ कश्चिदवमरानिको रत्नाधिकेनाभीक्ष्णं शिष्यमाणश्चिन्तयति-एषः 'रत्नाधिकवातेन' 'रना25 धिकोऽहम्' इति गर्वेण मां दशविधचक्रवालसामाचार्यामस्खलितमपि कषायोदयेन तर्जयति, __ यथा-हे दुष्टशैक्षक ! स्खलितोऽसीति । तथा मां निम्नतरमपि पदं पदेन विच्छिन्नं सूत्रमुच्चारयन्तं 'हा दुष्टशैक्ष ! किमिति मिलितमुच्चारयसि ?' इति तर्जयति । तथा "पेल्लण" त्ति अन्यैः साधुभिर्वार्यमाणोऽपि कषायोदयतो मां हस्तेन प्रेरयति । अथवैषा सामाचारीरत्नाधिकस्य सर्व क्षन्तव्यमिति, ततस्तथा करोमि यथा एष मम लघुको भवति । ततोऽन्यदा 30 द्वावपि भिक्षाचर्यायै गतौ, तौ च तृषितौ बुभुक्षितौ चेत्येवं चिन्तितवन्तौ-अस्मिन् आर्या देवकुले 'कुडने वा' वृक्षविषमे प्रथमालिकां कृत्वा पानीयं पास्याम इति; एवं चिन्तयित्वा तौ तदभिमुखं प्रस्थितौ । अत्रान्तरेऽवमरनाधिकः परिव्राजिकामेकां तदभिमुखमागच्छन्ती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy