SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १६२३ भाष्यगाथाः ६१३६-४३] षष्ठ उद्देशः । तुमए किर दहरओ, हओ त्ति सो वि य भणाति ण मए ति । तेण परं तु पसंगो, धावति एक्के व बितिए वा ॥ ६१४०॥ किल इति द्वितीयस्य साधोर्मुखादस्माभिः श्रुतम्-त्वया दर्दुरः 'हतः' विनाशितः । स प्राह-न मया हत इति । 'ततः परम्' एवंभणनानन्तरं 'प्रसङ्गः' प्रायश्चित्तवृद्धिरूपः 'एकस्मिन्' रानिके 'द्वितीये वा' अवमरानिके धावति । किमुक्तं भवति ?- यदि तेन रानिकेन । सत्येनैव दर्दुरो व्यपरोपितः ततो यदि 'सम्यगालोचय' इतिभण्यमानो भूयो भूयो निहते तदा तस्य प्रायश्चित्तवृद्धिः । अथ तेन न व्यपरोपितः ततः 'इतरस्य' अभ्याख्यानं निकाचयतः प्रायश्चित्तं वर्द्धते ॥ ६१४०॥ इदमेव भावयति एकस्स मुसावादो, काउंणिण्हाइणो दुवे दोसा । तत्थ वि य अप्पसंगी, भवति य एको व एको वा ॥ ६१४१॥ 10 'एकस्य' अभ्याख्यानदातुरेक एव मृषावादलक्षणो दोषः । यस्तु द१रवधं कृत्वा निहते तस्य द्वौ दोषौ-एकः प्राणातिपातदोषो द्वितीयो मृषावाददोष इति । 'तत्रापि च' अभ्याख्याने प्राणातिपाते वा कृतेऽपि 'एको वा' अवमरानिकः ‘एको वा' रानिको यदि अप्रसङ्गी भवति तदा न प्रायश्चित्तवृद्धिः । किमुक्तं भवति ?-यदि अवमरानिकोऽभ्याख्यानं दत्त्वा न निकाचयति यो वाऽभ्याख्यातः सोऽपि न रुष्यति तदा न प्रायश्चित्तवृद्धिः । अथाभ्याख्याता 15 भूयो भूयः समर्थयति इतरोऽपि भूयो भूयो रुष्यति तदा प्रायश्चित्तवृद्धिः । एवं दर्दुरविषयः प्रस्तारो भावितः । शुनक-सर्प-मृषकविषया अपि प्रस्तारा एवमेव भावनीयाः ॥ ६१४१॥ गतः प्राणातिपाति॑प्रस्तारः । सम्प्रति मृषावादा-ऽदत्तादानयोः प्रस्तारमाह मोसम्मि संखडीए, मोयगगहणं अदत्तदाणम्मि । आरोवणपत्थारो, तं चेव इमं तु णाणत्तं ॥ ६१४२ ॥ मृषावादे सङ्खडीविषयं निदर्शनम् । अदत्तादाने मोदकग्रहणम् । एतयोर्द्वयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु 'नानात्वं' विशेषः ॥ ६१४२॥ दीण-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति ।। जंपति मुहप्पियाणि य, जोग-तिगिच्छा-निमित्ताई ॥ ६१४३ ॥ __कस्यामपि सङ्खड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिके-28 नोक्तम्-व्रजामः सङ्खड्याम् , इदानीं भोजनकालः सम्भाव्यते। अवमो भणति-प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति, यथा-अयं दीन-करुणवचनैर्याचते. प्रतिषिद्धोऽपि च प्रविशति, एषणां च 'हन्ति' प्रेरयति, अथवा एष गृहं प्रविष्टो मुखप्रि १°तः। सोऽपि च रत्नाधिकः 'भणति' प्रतिबूते-न मया कां ॥ २ ख्यातः प्राणातिपातं वा कृतवान् सोऽपि यदि न रुष्यति न वा निद्भुते तदा कां ॥ ३ °ष्यति खापराधं निहते वा तदा कां० ॥ ४ तविषयः प्रस्ता' कां० ॥ ५ अयं रत्नाधिको दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च गृहपतिगृहं प्रायोग्यलम्पटतया भूयोभूयः प्रविशति, एषणां कां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy