SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १६२२ पर्यालोच्य प्रयत्नेन गवेषयन्नपि तादृशं छिद्रं रानिकस्य न लभते ॥ ६१३५ ॥ अनेण घातिए दद्दुरम्म दट्टु चलणं कतं ओमो । उद्दवितो एस तुमे, ण मि त्ति बितियं पि ते णत्थी ॥ ६१३६ ॥ अन्यदा च भिक्षादिपर्यटने अन्येन केनापि दर्दुरे घातिते रात्निकेन च तस्योपरि 'चलन' पादं कृतं दृष्ट्वाऽवमो ब्रवीति — एष दर्दुरस्त्वयाऽपद्रावितः । रात्रिको वक्ति न मयाऽपद्रावितः । अवमः प्राह - - 'द्वितीयमपि ' मृषावादेवतं 'ते' तव नास्ति ॥ ६१३६ ॥ एवं भणतस्तस्येयं प्रायश्चित्तरचना - वच्चति भणाति आलोय निकाए पुच्छिते णिसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ ६१३७ ॥ मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ ६१३८ ॥ • स एवमुक्त्वा ततो निवृत्त्याऽऽचार्यसकाशं व्रजति मासलघु । आगत्य भणति यथा - तेन दर्दुरो मारितः, एवंभणतो मासगुरु । योऽसावभ्याख्यातः स गुरूणां सकाशमागतः, आचार्यैश्वोक्तम्- -- " आलोय" त्ति आर्य ! सम्यगालोचय, किं सत्यं भवता दर्दुरो मारित: ?; स 15 प्राह-न मारयामि, एवमुक्तेऽभ्याख्यानदातुश्चतुर्लघु । " निकाए" त्ति इतरो निकाचयति रात्रिकस्तु भूयोऽपि तावदेव भणति तदा चतुर्गुरु । अवमरात्रिको भणति -- यदि न प्रत्ययस्ततस्तत्र गृहस्थाः सन्ति ते पृच्छ्यन्ताम्, ततो वृषभा गत्वा पृच्छन्ति, पृष्ठे च सति षड्लघु । गृहस्थाः पृष्टाः सन्तः ‘“णिसिद्धं" निषेधं कुर्वन्ति – नास्माभिर्दर्दुरव्यपरोपणं कुर्वन् दृष्ट इति गुरु । " साहु" त्ति ते साधवः समागता आलोचयन्ति नापद्रावित इति तदा छेदः । 20‘“गिहि” ति अथासावभ्याख्यानदाता भणति — 'गृहस्थाः ' असंयता यत् प्रतिभासते तद् अलीकं सत्यं वा ब्रुवते, एवंभणतो मूलम् । अथासौ भणति – “मिलिय" ति गृहस्थाश्च यूयं चैकत्र मिलिता अहं पुनरेक इतिब्रुवतोऽनवस्थाप्यम् । सर्वेऽपि यूयं प्रवचनस्य बाह्या इतिभणतः पाञ्चिकम् । एवमुत्तरोत्तरं वदतः पाराञ्चिकं यावत् प्रायश्चित्तप्रस्तारो भवति ॥ ६१३७ ॥ ६१३८ ॥ अथेदमेव भावयति - 25 10 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रस्तारप्रकृते सूत्रम् २ किं आगओ सि णाहं, अडामि पाणवहकारिणा सद्धिं । सम्म आलोय त्तिय, जा तिण्णि तमेव वियडेति ॥ ६१३९ ॥ रात्रिकं विना स एकाकी समायातो गुरुभिरुक्तः - किमेकाकी त्वमागतोऽसि ? । स प्राह - नाहं प्राणवधकारिणा सार्द्धमटामि । एवमुक्ते रात्रिक आगतो गुरुभिरुक्तः सम्यगालोचय, कोsपि प्राणी त्वया व्यपरोपितः ? न वा ? इति । स प्राह-न व्यपरोपितः । 30 एवं त्रीन् वारान् यावदालोचाप्यते । यदि त्रिष्वपि वारेषु तदेव ' त्रिकटयति' आलोचयति तदा परिस्फुटमेव कथ्यते ॥ ६१३९ ॥ Jain Education International १ 'दविरतिलक्षणं व्रतं 'ते' तत्र नास्ति, न केवलं प्रथम मित्यपिशब्दार्थः ॥ ६१३६ ॥ कां• ॥ २ 'पेधनं निषिद्धं निषेधमित्यर्थः कुर्वन्ति कां० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy