________________
भाष्यगाथाः ६१२९-३५] षष्ठ उद्देशः ।
१६२१ नाम-लघुमासादिकं तपः-कालयोरेकतरेण द्वाभ्यां वा गुरुकम् , गुरुमासादिकं वा तपसा कालेन वा द्वाभ्यां वा लघुकम् । अमिश्रं तु लघुमासादिकं तपः-कालाभ्यां द्वाभ्यामपि लघुकम् , गुरुमासादिकं वा द्वाभ्यामपि गुरुकम् । उभयमपि च तपः-कालविशेषरहितं पुनरपि द्विधा-प्रसनि अप्रसङ्गि च । प्रसङ्गि नाम-यद् अभीक्ष्णप्रतिसेवारूपेण शङ्का-भोजिका-घाटिकादिपरम्परारूपेण वा प्रसङ्गेन युक्तम् , तद्विपरीतमप्रसङ्गि । भूयोऽप्येतदेकैकं द्विधा-आपत्ति-5 प्रायश्चित्तं दानप्रायश्चित्तं च । एतत् सर्वमपि प्रायश्चित्तं 'द्विपक्षेऽपि' श्रमणपक्षे श्रमणीपक्षे च वस्तु प्रतीत्य मन्तव्यम् । वस्तु नाम-आचार्यादिकं प्रवर्तिनीप्रभृतिकं च, ततो यस्य वस्तुनो यत् प्रायश्चित्तं योग्यं तत् तस्य भवतीति भावः । एष प्रायश्चित्तप्रस्तार उच्यते ॥ ६१३१ ॥ "सम्मं अपडिपरेमाणे" ति पदं व्याचष्टेजारिसएणऽमिसत्तो, स चाधिकारी ण तस्स ठाणस्स ।
10 सम्मं अपूरयंतो, पचंगिरमप्पणो कुणति ॥ ६१३२ ।। 'यादृशेन' दर्दुरमारणादिनाऽभ्याख्यानेन 'सः' साधुः 'अभिशप्तः' अभ्याख्यातः स तस्य स्थानस्य 'नाधिकारी' न योग्यः अप्रमत्तत्वात् ; अतोऽभ्याख्यानं दत्त्वा सम्यग् 'अप्रतिपूरयन्' अनिर्वाहयन् आत्मनः प्रत्यङ्गिरां करोति, तं दोषमात्मनो लगयतीत्यर्थः ।। ६१३२ ॥ कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तर:
15 छ चेव य पत्थारा, पाणवह मुसे अदत्तदाणे य ।
अविरति-अपुरिसवाते, दासावातं च वतमाणे ॥ ६१३३ ॥ पडेव प्रैस्ताराः भवन्ति । तद्यथा--प्राणवधवादं मृषावादवादं अदत्तादानवादमविरतिकावादमपुरुषवादं दासवादं च वदति इति ॥ ६१३३ ।। तत्र प्राणवधवादे प्रस्तारं तावदभिघित्सुराह
ददुर सुणए सप्पे, मूसग पाणातिवादुदाहरणा ।
एतेसिं पत्थारं, वोच्छामि अहाणुपुवीए ॥ ६१३४ ॥ प्राणातिपाते एतानि 'उदाहरणानि' निदर्शनानि भवन्ति-दर्दुरः शुनकः सों मूषकश्चेति । एतेषाम्' एतद्विषयमित्यर्थः 'प्रस्तारं' प्रायश्चित्तरचनाविशेषं यथानुपूर्व्या वक्ष्यामि ॥ ६१३४ ॥ तत्र दर्दुरविषयं तावदाह
ओमो चोदिजंतो, दुपहियादीसु संपसारेति ।
अहमवि णं चोदिस्सं, न य लब्भति तारिसं छेटुं॥ ६१३५ ॥ 'अवमः' अवमरालिको रानिकेन दुःप्रत्युपेक्षितादिषु स्खलितेषु भूयो भूयो नोद्यमानः 'सम्प्रसारयति' मनसि पर्यालोचयति-अहमपि “णं" एनं रानिकं नोदयिष्यामि । एवं
१°वानिष्पन्नेन शङ्का-भोजिका-घाटिकानिवेदनादिपरम्परानिष्पन्नेन वा प्रसङ्गमायश्चित्तेन युक्तम् , का० ॥ २ °ना वक्ष्यमाणलक्षणेनाऽभ्याख्या का० ॥ ३ 'प्रस्तारा' प्रायश्चित्तरचनाविशेषा भवन्ति, न पञ्च न वा सप्त इत्येवकारार्थः । तद्यथा का ॥ ४ प्रतिक्षातमेव निर्वाहयन् पर्दुरविषयं प्रस्तारं तावदाह इतिरूपमवतरणं का० ॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org