________________
5
१६२०
अस्य सूत्रस्य सम्बन्धमाह -
तुहिकरणा संखा, तुल्लहिगारो व वादिओ दोसो । अहवा अयमधिगारो, सा आवत्ती इहं दाणं ॥ ६१२९ ॥ 'द्वयोरपि' अनन्तर - प्रस्तुतसूत्रयोस्तुल्याधिकरणा सङ्ख्या, समानः षट्सयालक्षणोऽधिकार इत्यर्थः । यद्वा वाचिको दोषस्तुल्याधिकारः, उभयोरपि सूत्रयोर्वचनदोषोऽधिकृत इति भावः । अथवाऽयमपरोऽधिकार उच्यते - 'सा' पूर्वसूत्रोक्ता शोधिरापत्तिरूपा, इह तु तस्या एव शोधेर्दानमधिक्रियते ॥ ६१२९ ॥
30
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रस्तारप्रकृते सूत्रम् २
इच्चेते छ कप्परस पत्थारे पत्थरित्ता सम्मं प्पडिपूरेमाणे तट्ठाणपत्ते २ ॥
10 अनेन सम्बन्धेनायातस्यास्य व्याख्या – कल्पः - साधुसमाचारस्तस्य सम्बन्धेन तद्विशुद्धिकारणत्वात् ‘प्रस्ताराः’ प्रायश्चित्तरचनाविशेषाः षट् प्रज्ञप्ताः । तद्यथा - प्राणांतिपातस्य 'वाद' वार्तां वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः १ । एवं मृषावादस्य वादं वदति द्वितीयः । अदत्तादानस्य वादं वदति तृतीयः । अविरतिः - अब्रह्म, यद्वा न विद्यते विरतिरस्याः सा अविरतिका - स्त्री तद्वादं वदति चतुर्थः । अपुरुषः - नपुंसकस्तद्वादं वदति पञ्चमः । दासवादं 15 वदति षष्ठः । 'इति' इत्युपप्रदर्शने । एवंप्रकारानेतान् षट् कल्पस्य 'प्रस्तारान्' प्रायश्चित्तरचनाविशेषान् 'प्रस्तीर्य' अभ्युपगमत आत्मनि प्रस्तुतान् विधाय 'प्रस्तारयिता वा' अभ्याख्यानदाता साधुः सम्यग् ‘अप्रतिपूरयन्' अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवन् तस्यैव-प्राणातिपातादिकर्तुरिव स्थानं प्राप्तस्तत्स्थानप्राप्तः स्यात् प्राणातिपातादिकारीव दण्डनयो भवेदिति भावः । अथवा प्रस्तारान् ' प्रस्तीर्य' विरचय्याऽऽचार्येणाभ्याख्यानदाता 20 ‘अप्रतिपूरयन्' अपरापर प्रत्ययवचनैस्तमर्थं सत्यमकुर्वन् तत्स्थानप्राप्तः कर्तव्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत् पदं प्रापणीय इति भावः । एष सूत्रार्थः ॥ अथ भाष्यकारो विषमपदव्याख्यामाह -
पत्थारो उ विरचणा, सो जोतिस छंद गणित पच्छिते । पच्छित्त्रेण तु पगयं, तस्स तु भेदा बहुविगप्पा ॥ ६१३० ॥ 25 प्रस्तारो नाम विरचना, स्थापना इत्यर्थः । स च चतुर्द्धा – ज्योतिषप्रस्तारः छन्दः प्रस्तारो गणितप्रस्तारः प्रायश्चित्तप्रस्तारश्चेति । अत्र प्रायश्चित्तप्रस्तारेण प्रकृतम् । 'तस्य च ' प्रायश्चित्तस्यामी 'बहुविकल्पाः ' अनेकप्रकारा भेदा भवन्ति ॥ ६१३० ॥ तद्यथा--- उग्घातमणुग्घाते, मीसे य पसंगिं अप्पसंगी य ।
आवजण दाणाहं, पडुच्च वत्थं दुपक्खे वी ।। ६१३१ ॥
इह प्रायश्चित्तं द्विधा - उद्धातमनुद्धातं च । उद्धातं - लघुकम्, तच्च लघुमासादि । अनुद्वातिकं - गुरुकम्, तच्च गुरुमासादि । तदुभयमपि द्विधा - मिश्रं चशब्दाद् अमिश्रं च । मिश्र
१गि होति अपसंगी । आव ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org